SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे अरिष्टशान्तेर्नलिनीशपेशलद्युतेः सतेजोऽनुभवेन संगतेः ॥ १०॥ बहुश्रुतानां वदनादनाश्रवैः श्रुता रसक्षालनयेव चत्कथा | ददाति सोच्चैःश्रवसो नियोजनाज्जनेऽनिमेषाद्विबुधक्रियां शुचिम् ॥ ११ ॥ समाधुरीका न कटुः श्रुतावपि निशामनाद याऽऽन्तरकश्मलापहा । कथं न सा मद्विरमाविलामपि न शोधयेन्नाथकथा यथास्थिता ? ॥ १२ ॥ ययाऽऽख्यया भव्यनृणां शुचीकृतं स्मृतेर्मनो भावनया जगद्गुरोः । इयं विशेषात् प्रतिभां कथं न मे स्वसेविनीमेव पवित्रयिष्यति ? ॥ १३ ॥ अधीतिबोधाचरणप्रचारणैः १ अन्यत्र श्राश्रवे ऽलग्नमनोभिः सावधानैरित्यर्थः । २ उच्चैःश्रवाः=अश्वः, उत्कर्णता च । ३ विबुधाः = देवाः, पण्डिताश्च । ४ " निशमनं निशामनं निरीक्षणश्रवणयोः" इत्यने० ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy