________________
श्रीकुमारविहारशतकम्
...
द्वात्रिंशत्तमकाव्ये चैत्यप्रभाव इत्थं वर्णितः स्वर्गरोहणाचलादीन्दिदृक्षुरस्मिञ्चैत्य आस्थां करोतु । यथा दूरस्थवस्तुसार्था मनुष्यैरुच्चैःप्रदेशमारुह्यावलोक्यन्ते तथाऽतितुंगशिखर अस्मिञ्चैत्य आरुह्य स्वर्गरोहणाचलादयः पदार्थाः दृश्यन्ते । पुनरतिप्रभावशाल्यस्मिञ्चैत्ये श्रद्धालुः स्वर्गादौ गच्छति । इत्थमस्मिन्काव्ये तैरेकवाक्येन द्वार्थी सूचितौ ।
षट्चत्वारिंशत्तमवृत्ते चैत्यस्य समृद्धिः प्रदर्शिता ।
एकोनपञ्चाशत्तमकाव्ये प्रभुं समशत्रुमित्रं प्रदर्शयित्वा स एव सेव्य इति ज्ञापितम् ।
XIX
सप्ततितमछन्दसींद्रः प्रभुगुणान् श्रोतुं प्रभुरुपं शंसितुं वंदनं कर्तुमर्चनं कर्तुं श्रोत्रजिह्वामस्तकहस्तानां सहस्रं स्पृहयति ।
एकसप्ततितमश्लोक आविर्भावितं यत्तस्मिञ्चैत्ये श्रावकाः पुण्यचयं कर्तुं व्याधिमन्तो व्याधिविनाशाय मनिषिणः शिल्पं निरीक्षितुं दुष्टशरीराः पापकर्मविनाशाय दरिद्रा वित्तकामेन संगीतप्रणयिनः संगीतकं निशमयितुं प्रेष्याः स्वामित्वेच्छया नित्यमागच्छन्ति स्म ।
पञ्चसप्ततितमवृत्ते प्रदर्शितं यद्देवा अपि देवलोके तच्चैत्यं प्रशंसन्ति
स्म ।
अष्टाशीतितमकाव्ये चैत्यस्य शिल्पकला वर्णिता ।
द्वानवतितमछन्दसि ज्ञापितं यत्तस्मिञ्चैत्ये देवा देव्यश्च नाट्यं कर्तुमहर्निशमाजग्मुः ।
षण्णवतितमश्लोके निरुपितं तस्मिञ्चैत्ये जनानां प्रभूतः
संमर्दोऽवर्तत ।
-
...