SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ XVIII श्रीकुमारविहारशतकम् अस्मिन्काव्ये प्रणेतृभिर्जगन्नाथचैत्ययोरत्यद्भूतं वर्णनं कृतम् । अस्य काव्यशिरोमणेः पठनानन्तरं तच्चैत्यशिरोमणेर्दिदृक्षा प्रबला भवति । रचयितृपूज्यैरिदं काव्यं स्मृति-व्यतिरेकातिशयोक्ति-पूर्णोपमोत्प्रेक्षाभ्रांतिमत्तद्गुणप्रभृत्यनेकालंकारैरलङ्कृतमस्ति यत्तेषां काव्यकौशल्यस्य श्रेष्ठता सूचयति । आदिमैरष्टभिर्काव्यैस्तच्चैत्यस्थपार्श्वप्रभोर्महिमा वर्णितः । तत्र च प्रथमकाव्ये ते ज्ञापयन्ति यद्भक्तानामष्टकर्मविनाशाय पार्श्वप्रभुर्फणावर्तिसप्तरत्नेषु सप्तान्यरुपान्धारयति । षष्ठवृत्ते ते पार्श्वप्रभोर्दृष्टेर्माहात्म्यं वर्णयन्तः कथयन्ति - पार्श्वप्रभोर्दृष्टिर्मुक्ते निःश्रेणीरस्ति, पापपारावारोत्तारणे सेतुरस्ति, विघ्नविघाताय मङ्गलस्वरुपाऽस्त्यालस्यप्रतिहतये रवितुल्याऽस्ति, त्रिभुवने दीपोपमाऽस्ति, कल्याणवल्लीप्ररोहणे नीकसमानाऽस्ति, पापप्रक्षालने गङ्गासादृश्यं बिभर्ति । ईदृशी पार्श्वस्वामिनो दृष्टि: सज्जनानामज्ञानतिमिरमपाकरोतु । अष्टमछन्दसि ते व्यक्तीकुर्वन्ति यदग्निज्वलत्काष्ठात्सर्पमाकृष्य प्रभुः करुणैव मुक्तिविथिरिति त्रिभुवनजनं ज्ञापितवान् । प्रथमाष्टकानन्तरं शतेनाष्टाधिकेन श्लोकानां प्रासादमहिमा निरुपितः। अष्टाविंशतितमायां गाथायां प्रभोः स्नात्रजलमहिमानं प्रदर्शयद्भिः कविभिः प्रकटितं यत्प्रभुस्नात्रजलस्नाताः काश्चिस्त्रियः पूर्णसमृद्धि प्राप्नुवन्ति, काश्चन पुत्रवत्यो भवन्ति, कासाञ्चिच्चिरकालरोगा नश्यन्ति, काश्चन सौभाग्यमाप्नुवन्ति । इत्थं तच्चैत्यविराजिपार्श्वजिनोऽतीव प्रभावशाल्यासीत् ।
SR No.023186
Book TitleKumarvihar Shatakam
Original Sutra AuthorN/A
AuthorRamchandragani, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages176
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy