SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पुनः कीदृशम् ? ददददम् + दा: = देवा: → दो दाने पूजने क्षीणे दानशौण्डे च पालके देवे - [६७] इति पूर्वोक्तविश्वशम्भुवचनाद्, दः = दत्तम् → द: पुमानचले दत्ते - [१८-१] इति मेदिनीकोशो मेदिनीकरनिर्मित:, दम् = भव्यम् दिव्यमित्यर्थः → दं दानं शरणं कर्म भव्यम् + [६४] इत्येकाक्षरनाममाला सौभरिप्रणीता, द: = चीवरम् → द: स्मृत: बन्धे च बन्धने बोधे बाले बीजे बलोदिते विदोषेऽपि पुमानेष चालने चीवरे - [६८-६९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, दञ्चासौ दश्चेति दद: = दिव्यवस्त्रम्, दैः = देवै: दः = दत्तम् ददः = दिव्यवस्त्रं यस्मै स ददददः = देवदत्तदिव्यवसन: आर्हतातिशयात, तम् । पुन: कीदृशम् ? ददम् = द= भव: → दो वधे भववालयो: - [८१] इति पूर्वोक्तकालिदासव्यासवचनाद्, द: = छेद: → द: पुंसि दातरिच्छेदे + [४७] इत्येकाक्षरकाण्ड: कविराघवरचित:, दस्य दो यस्मात् स दद: = संसोरोच्छेदक: परमसुखित्वात् संसारस्य दुःखप्रचुरत्वात् तथैतदार्षम् → संसारम्मि दुक्खपउराए + [८-१] इति उत्तराध्ययनसूत्रे, तम् । पुन: कीदृशम् ? दम् दः = अचल: निश्चल इत्यर्थ: → दः पुमानचले [१८-१] इति मेदिनीकोशो मेदिनीकरविरचितः, काञ्चनगिरिवत् स्थिरत्वात्, भीष्मपरीषहादेरागमनेऽप्यचलेशवदचल इत्याशयः, तम् । दकारेण कृता राजारामगञ्ज पुरे स्तुतिः । फाल्गुनश्यामसप्तम्यां सुखं श्रीसुविधेर्विभोः ।।१।। इति श्रीसुविधिजिनस्तुतिः ।। ११ ।। ★★★ [दः] श्रीसुविधिजिनस्तुति:
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy