SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मञ्जुला य: सुमतिर्भवति स पद्मप्रभ:(स्फुटितपद्मवन्मुखप्रभः) भवति, यतो न मनीषिणां मुखं हृदयगतचिन्ताग्निना दग्धमयं तु सर्वदा निश्चिन्त एवेत्यनेन सम्बन्धेनायातस्य श्रीपद्मप्रभस्वामिन: स्तुतिर्भाष्यते । जजजजमिति । हे ज ! = हे जीव ! स्वकीयात्मानमेव वक्ति → जो जिष्णौ विगते जीवे - [१९] इत्यनेकार्थतिलक: सचिवमहीपरचितः, तस्य सम्बोधने, त्वं पद्मप्रभं प्रभुम् = श्रीपद्मप्रभस्वामिनं षष्ठं तीर्थकरं भज = सेवस्व → भजी सेवायाम् [८९५] इति हैमधातुपाठः, इति क्रियाकारकसम्बन्धः । कीदृश हे ज ! ? जज ! • ज: = निशाकर: → जा स्त्रियां देववाहिन्यां योनिसागरवेलयोः (जो निशाकरवेलयोः) - [२७] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथप्रणीत:, जम् = निर्मलम् → जं वृत्ते निर्मलं प्रोक्तम् [१७] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दननिर्मित:, ज इव जमिति जजम् = निशाकरनिर्मलः, तस्य सम्बोधने, यत: कर्मकलङ्कमालिन्येऽपि जीवस्तु स्वभावतो विमल एवातस्तस्य तत्त्वमुक्तम् ।। अत्र ‘भज' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहार्यमिदं पदम्, कं कर्मतापन्नम् ? पद्मप्रभं प्रभुम्', किं सम्बोधनम् ? 'ज', 'जज' तु तस्य विशेषणम्, अन्यानि श्रीपद्मप्रभस्वामिनो विशेषणानि ।। कीदृशं श्रीपद्मप्रभं प्रभुम् ? जजजजम् - जा: = जैना: → ज: स्याज्जननजैनयो: 6 [५०] इत्येकाक्षरशब्दमालाडमात्यमाधवकृता, जा: = मत्सरिजना: → ज: पुमान् विजले मुक्ताविस्तारे मत्सरी?(रि)जने - [४८] इत्येकाक्षरशब्द[ज:] श्रीपद्मप्रभस्वामिस्तुति: ४९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy