________________
व्यासविहिता, गं गं यस्य स गग: = श्रेष्ठशरीर: समचतुरस्रसंस्थानवत्त्वात्, तम् ।
पुन: कीदृशम् ? गगम् + ग: = परमार्थ: सत्यमित्यर्थः, ग: = वाचा → परमार्थे सुरसिद्ध्यां च इव (?) निगदित: ? (तो) गकार: गत्याक्षेपे वस्तुनि गान्धारेऽप्यथ वाचायाम् - [१९] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातकृता, गो गे यस्य स गग: = परमार्थवक्ता महासत्त्ववत्त्वात्, महासत्त्वस्यान्यथावक्तुमशक्यत्वात्, तदुक्तम् → जंपंति न अन्नहा महासत्ता 6 [१४९] इति पुष्पमालायाम्, तम् ।
पुन: कीदृशम् ? गम् + गम् = विघ्नविनष्टा → गकारं तु गणेश: स्यात् पीताभं विघ्ननाशनम् [१८] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, मङ्गलरूपत्वात्, तद् ।
पुन: कीदृशम् ? गम् + गम् = वरम् → गं च वादिनं शरणं वरम् . [२७] इति पूर्वोक्तसौभरिवचनाद्, प्रशस्यतमत्वात्, तद् ।
पुन: कीदृशम् ? गगगम् + ग: = उत्तम: → ग: प्रीतो भव: श्रीपतिरुत्तम: * [२३] इत्येकाक्षरनाममालिका सौभरिप्रणीता, ग: = शब्द: → गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि - [२५] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, ग: = स्वरः → गो गणेश्वरे (गणे स्वरे) - [8] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातविहिता, गश्च गश्चेति गगौ, गौ गगौ यस्य स गगग: = उत्तमशब्दवानुत्तमस्वरवांश्च उत्तमाधिपते: सर्वस्य प्रावर्यात्, तम् ।
पुन: कीदृशम् ? गगगम् + ग: = भव: → ग: प्रीतो भव: - [२३] इति पूर्वोक्तसौभरिवचनाद्, गम् = नाग: हस्तीत्यर्थः → -गत्योरपि गा स्मृता नपुंसके गलिते नागे च - [३५/३६] इत्येकाक्षरशब्दमालाडमात्यमाधवरचिता, ग: = सिंहः → गकारः सिंहसंज्ञक: [२१] इत्येकाक्षरीमातृकाकोशोऽज्ञातरचित:, ग एव गमिति गगम् तत्र ग इवेति गगग: = संसारस्तम्बरमसिंहः संसारपारग इत्यर्थः निष्कषायत्वात् कषायस्य संसारमूलकर्ममूलत्वात्, तथैतदार्षम् → संसारस्स उ मूलं कम्मं तस्स वि य होंति य कसाया [९०] इत्याचाराङ्गनिर्युक्तौ, तम् ।
पुनः कीदृशम् ? गगम् + गम् = वरम् गम् = शरणम् → गं च वादित्रं शरणं वरम् [२७] इति पूर्वोक्तसौभरिवचनाद्, गं गं यस्य स गग: = [ग:] श्रीशम्भवनाथस्तुतिः