________________
मञ्जुला
यः कर्मभिरजितो भवति स शम्भव: (सर्वसौख्यकारकः) भवति कर्मभिर्जितस्य दरिद्रत्वात्, स्वस्य च दरिद्रत्वे परपरमसुखजनकत्वाभावादिति सम्बन्धेनायातस्य श्रीशम्भवस्वामिनः स्तुतिमाचष्टे ।
गगं गगमिति ।
शम्भवं जिनम् = श्रीशम्भवं स्वामिनं तृतीयतीर्थकृतम् अहं भजे = अहं सेवे → भज भागे सेवायाञ्च ← [पृ. ७९९ ] इति शब्दस्तोममहानिधिः, इति क्रियाकारकसम्बन्धः, कीदृशोऽहम् ? गग: गः = भव: संसार इत्यर्थः, गः = प्रीतः अनुराग इत्यर्थ: गः प्रीतो भवः ← [२३] इत्येकाक्षरनाममाला सौभरिरचिता, गे गो यस्य स गगः = संसारानुरक्तः ।
अत्र ‘भजे' इति क्रियापदम्, कः कर्ता ? ' अहम्', कीदृशोऽहम् ? 'गगः', कं कर्मतापन्नम् ? ‘शम्भवम्', अन्यानि श्रीशम्भवजिनस्य विशेषणानि ।
कीदृशं श्रीशम्भवजिनम् ? गगम् ग = सहस्रांशुः → गो गन्धर्वे गणेशेऽर्के ← [३ - १] इति विश्वलोचनकोश: श्रीधरसेनाचार्यप्रणीतः, गः = उपमा → गशब्दः पुंसि गान्धारे गन्धर्वे गणनायके उपमार्थे ← [ ३४ / ३५] इत्येकाक्षरशब्दमालाऽमात्यमाधवकृता, गस्य गो यस्य स गगः = : सहस्रांशूपमः अतिशयतेजस्वित्वाद् यद्वा भानुर्यथा स्वकीयैर्भानुभिश्चकास्ति तथैव जिनेशो निजानेकगुणमयूखै राजत इति, तम् ।
पुनः कीदृशम् ? गगम् • गम् = वरं प्रशस्यमित्यर्थः → गं च वादित्रं शरणं वरम् ← [२७] इत्येकाक्षरनाममाला सौभरिनिर्मिता, गम् = गात्रम् शरीरमित्यर्थः → गं गिरागात्रगाथासु ← [ ४७ ] इत्येकाक्षरीनाममाला कालिदास[ग: ] श्रीशम्भवनाथस्तुति:
३१