________________
स्फटिकं ? (क:) पापनाशनं भोग-मोक्षप्रदं पुण्यं भुक्ति-मुक्तिप्रदायकम् + [१७] इति पूर्वोक्तैकाक्षरनाममालावचनाद्, मुक्तिदातृत्वं तु पूर्वमुक्तमत्र भुक्तिदायकत्वम्, भव्येभ्यो यथायोग्यं ददातीत्याशयः ।
पुन: कीदृशम् ? खम् - ख: = क्षम: समर्थ इत्यर्थस्तम् → ख: स्यादिह खगराजो नभोगतौ निश्चये तथा (क्षमे) + [१८] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, अचिन्त्यसामर्थ्यवानित्याशय: सिद्धत्वात्, तस्य तत्त्वात्, तदुक्तम् → अचिंतसामत्था मङ्गलसिद्धपयत्था सिद्धा — [२५] इति चतुःशरणप्रकीर्णके।
दशम्यां कृष्णमाघस्य नूरपुरे पुरे मया । खकारेण जिनेन्द्रस्याजितस्य रचिता स्तुतिः ॥१॥
इति श्रीअजितनाथजिनस्तुति: ।। ४ ॥
★★★
[ख :] श्रीअजितनाथस्तुतिः
२९