________________
मञ्जुला
य: प्रथम: = विस्तृतश्री: (प्रथा = विस्तीर्णा मा = लक्ष्मी: यस्य) स कर्मभिरजितो भवति, अल्पश्रीणां तु कर्मभि: परास्तत्वाद्, अनेन सम्बन्धेनायातस्य श्रीअजितनाथजिनस्य स्तुति: प्रोच्यते ।
खवखमिति ।
खख ! - खः = कृपण: → ख: पुंलिने कृशे... ने ? स्वर्गशून्यदराग्निषु कृपणे [३२/३३] इत्येकाक्षरनाममालाडमात्यमाधवविरचिता, खः = पार्थिवः → खः शून्यखड्गनृपतौ - [७] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, खश्चासौ खश्चेति खखः = कृपणनृपः, तस्य सम्बोधने, हे खख ! त्वम् अजितं जिनम् = श्रीअजितनाथजिनेश्वरं स्तुष्प = स्तवनविषयीकुरुष्व → ष्टुंग्क् स्तुतौ - [११२४] इति धातुपाठ: श्रीहेमचन्द्राचार्यरचितः, इति क्रियाकारकसम्बन्धः । ___ अत्र ‘स्तुष्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'अजितं जिनम्', किं सम्बोधनम् ? 'ख', अन्यानि श्रीअजितनाथस्य विशेषणानि । ___ कीदृशं श्रीअजितनाथम् ? खनखम् - खम् = चन्द्रबिम्बम् → खमित्युक्तमिन्द्रियाकाशयोपे चन्द्रबिम्बे - [११/१२] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनविरचितः, खः = स्फटिक: → खकारं जाह्नवीबीजं स्फटिकम् ? (क:) - [१७] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, खम् = वर्ण: → खं सैन्ये गगने बिन्दाविन्द्रिये चन्द्रमण्डले वर्ण- 6 [१३/१४] इत्यनेकार्थतिलक: सचिवमहीपप्रणीत:, खञ्च खश्चेति खखौ तद्वद् खं यस्य स खनन: = चन्द्रबिम्ब
ख :] श्रीअजितनाथस्तुति:
२३