________________
कक: - कः = सहस्ररश्मिः सूर्येऽपि कः स्मृतः ← [७] इत्येकाक्षरनाममाला वररुचिविरचिता, कम् = वदनम् → शिरोऽम्बुवदनेषु कम् ← [७] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातप्रणीता, क इव कं यस्य स ककः = आदित्यवदनः अतिशयतेजस्वित्वात्,
कक: ं कम् = जीवः कं स्तब्धनिर्जले जीवे ← [४४] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, कः = सखा क: सूर्यमित्र - ← [९] इति पूर्वोक्तसुधाकलशमुनिवचनाद्, कानां क इति ककः सर्वेषां जीवानां परिग्रहार्थं बहुवचनं ज्ञेयम् कक: = सर्वासुमत्सखा, अथवा कानि = सर्वे जीवा : का: = मित्राणि यस्य स ककः = सकलजन्तुसुहृत् अजातशत्रुत्वाद् द्वेषविषरहितत्वाच्च, ककश्चासौ ककश्चेति कककक: = आदित्यवदन-सर्वासुमत्सखा । पुनः कीदृश: ? ककः कः = शुद्धः कलहे को विजानीयात् प्रश्नेऽर्थेऽपि क्वचिन्मतं स्वर्गे चक्रे तथा मित्रे शुद्धे ← [३५] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, कः = आत्मा को वायुशमनार्केषु ब्रह्मण्यात्मनि पावके ← [१-१] इति शब्दरत्नसमन्वय: शाहराजमहाराजनिर्मित, कः को यस्य स कक: = सुविशुद्धचेतनः कर्ममालिन्येनामलिनत्वात् ।
पुनः कीदृश: ? कः कः = चक्री को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे कामग्रन्थौ चक्रिणि च ← [ १ - १] इति मेदिनीकोशो मेदिनीकरविनिर्मितः, धर्मचक्रित्वात् ।
पुनः कीदृश: ? कः कः = दक्षः इति पूर्वोक्तमेदिनीवचनात्, अनन्यचातुर्यात् ।
बीजनोराभिधे ग्रामे माघासिताष्टमीदिने प्रणीतेयं ककारेण श्रीप्रथमेश्वरस्तुतिः
[क] श्रीऋषभजिनस्तुतिः
इति श्रीऋषभजिनस्तुतिः ॥ ३ ॥
✰✰
को ब्रह्मणि... दक्षेषु ← [ १ - १ ]
२१
11811