SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ह सषमिति । हे कलिकुण्डेश ! = हे कलिकुण्डपार्श्वनाथ ! त्वां तथा श्रीराजेन्द्र गुरुम् = कलिकुण्डतीर्थोद्धारकाचार्यविजयराजेन्द्रसूरीश्वरं च नुत्वा = स्तुत्वा आत्मकर्मविमुक्तये = आत्मदुरितविध्वंसनाय श्रीजिनेन्द्राणां स्तोत्रम् = श्रीजिनेश्वराणां स्तोत्रम् क्रियते = वितन्यते । अत्र ‘कलिकुण्डेश ! त्वां नुत्वा' इत्यनेन मङ्गलाचरणं समसूचि । ‘श्रीराजेन्द्र गुरुम्' इत्यनेन स्वकीयसद्गुरुस्मृतिमाधाय सम्बन्ध: समदर्शि यदिह न हि स्वीयमेव शेमुषीकल्पनमपितु स्वसद्गुरुपरम्परया श्रुतं यत्तदेव न्यासि नान्यदिति । _ 'जिनेन्द्राणां स्तोत्रम्' इत्यनेन विषयो व्याख्यायि यतोऽत्र जिनेशितृस्तुतीनामेव विवरणमभ्यधायि । 'आत्मकर्मविमुक्तये' इत्यनेन प्रयोजनमप्यभाषि यतो जिनेशभक्त्याऽवश्यमेव महानन्दानन्दावाप्तिस्तदुक्तं द्वात्रिंशद्वात्रिंशिकायाम् → भक्तिर्भागवती बीजं परमानन्दसम्पदाम् - [४-३२] इति सा च कृत्स्नकर्मक्षेण्यादेवातस्तस्यास्तद्धेतुत्वात्तदिति । अधिकार्यप्यवाच्यस्मादेवास्य भव्य एवेति तस्यैव तत्त्वात् । अथ श्रीकलिकुण्डपार्श्वनाथप्रभोर्विशेषणान्याह । वैशिष्ट्यञ्चात्र हकारादीनां खकारपर्यन्तानां मातृकापाठान्तर्गतानां सर्वव्यजनानामनुक्रमतो व्यत्ययत: समावेश: स्वरश्च - अकार एवेति । छन्दस्यस्मिन् द्वात्रिंशद्वर्णानामेव समावेशस्य सम्भवान्न ककारस्य समावेशस्तदर्शनस्याप्याग्रहश्चेद् द्वितीयश्लोकप्रारम्भतो गृह्यताम्, एतेन व्यत्ययत: सर्वव्यञ्जनानामनुक्रमतोऽपि निदर्शनम् । अथ कलिकुण्डपार्श्वनाथजिनेशितुर्विशेषणान्याह ।। अत्रानुस्वारविरहितान्यख्रिलान्यपि 'कलिकुण्डेश !' इत्यमुष्य तथा चानुस्वारान्तानि 'त्वाम्' इत्यस्य विशेषणानि । कीदृश भो: कलिकुण्डपावेश ! ? ह ! हः = वीर: → होऽथ वीरे मङ्गलाचरणम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy