________________
इरुगपदण्डाधिनाथविहितः, णः = आस्यम् णो गन्धेभास्यहर्षेसु ← [33] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातकृता, णवद् णो यस्य स णण: = कमलदललपनः तद्वदतीवर्जुपरमसौम्यमुखवानित्यर्थः ।
अणू: P णू: = जटा → णू: कालिन्दी सटा (जटा ) ← [ ५५ ] इत्येकाक्षरनाममाला सौभरिग्रथिता, न विद्यते शूर्यस्य स अणूः = जटारहितः केशलुञ्चनकृत्त्वात् न च शतक्रतुविज्ञप्तश्री ऋषभदेवस्य जटावत्त्वेन सदोषत्वमिति वाच्यम् तथात्वस्य कादाचित्कत्वात् न चानुलुञ्चनं वालवर्धनेनास्तु जटासहितत्वेनैव पुनस्तादवस्थ्यमेवेति वाच्यम् अर्हतोऽतिशयविशेषेणैव तदनभिवर्धनाद् तदुक्तम् → केशरोमनखश्मश्रु तवावस्थितमित्ययम् - [ ४-७ ] इति वीतरागस्तोत्रे, अथवा णू: = जरा → णू : कालिन्दी सटा (जटा ) जरा ← [ ५५ ] इत्येकाक्षरनाममाला सौभरिगुम्फिता, न विद्यते शूर्यस्य स अणू: = जरारहितः सदैव युवत्वात् 1 णणश्चासावणूश्चेति णणा-ऽणू : = कमलदललपन - जटारहितः, तम् । पुनः कीदृशम् ? णुणा-ऽणौणम् ।
णुणः णुः = करेणुः णुः करेणुः ← [ ५५ ] इति पूर्वोक्तसौभरिवचनाद्, णम् = गमनम् →णं संशोध्यजले ज्ञाने गमने परिकीर्त्यते ← [६२] इत्येकाक्षरशब्दमालाऽमात्यमाधवभणिता, णुरिव णं यस्य स गुणः करेणुगमन : शुभविहायोगतित्वात् ।
=
अणौण: • णौ: = माया → णौर्माया ← [ ५६ ] इत्येकाक्षरनाममाला सौभरि प्रोक्ता, णः = रतिः रतिर्दक्षपदाग्रगः निर्वाणस्त्रिगुणाकारस्त्रिरेखो
ण: समीरितः ← [३३] इति पूर्वोक्तैकाक्षरीमातृकाको शोक्तेः, णौश्च णश्चेति णौणौ, न विद्यते णौणौ यस्य स अणौण: = मायारतिरहितः निर्दम्भत्वाद
नासक्तत्वात्,
गुणश्चासावणौणश्चेति णुणा - ऽणौणः = करेणुगमन-मायारतिरहितः,
इति णकारेणार्हत्स्तुतिः ।। ११ ।।
★ ★ ★
तम् ।
[ण: ] अर्हत्स्तुतिः
७५