________________
राज्यत्वात्, त्यक्तराज्यस्यायुधानावश्यकत्वात् ।
ढीढञ्चासावढश्चेति ढीढा-ऽढ: = मनुष्यश्रेष्ठा-ऽनायुधः ।
पुन: कीदृश: ? ढः - ढः = विश्वेश्वर: → ढो हि विश्वेश्वरेऽपि च . [१४] इत्येकाक्षरकोषो महाक्षपणकनिर्मित:, त्रिलोक्यधिपत्वात् ।
पुन: कीदृश: ? अढढः + ढः = मूढः मूर्ख इत्यर्थः → मूढे वाद्यभेदे ढ उच्यते - [५६] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, ढ: = मुग्धः मोहीत्यर्थः → ढ: शब्दस्तु....-मुग्धरोगेषु + [२८] इति पूर्वोक्ताजिरादिएकाक्षरीनाममालावचनाद्, ढश्चासौ ढश्चेति ढढः = मूढमुग्धः, न ढढ इति अढढः = अमूढमुग्ध: विद्वद्वर्यो विरक्तवर्य इत्यर्थः ।
पुन: कीदृश: ? ढोढो-ढढः ।
ढोढौः + ढौः = सुखी ढौः = वर्यः → ढो: सुखी वर्य: [५४] इति पूर्वोक्तसौभरिवचनाद्, ढोषु ढौरिति ढोढौः = सुखिश्रेष्ठः अव्याबाधसुखस्वामित्वात् ।
ढढः + ढम् = वरम् → ढं पयो वरम् - [५४] इति पूर्वोक्तसौभरिवचनाद्, ढः = गति: → ढः शब्दगतिनिर्गुणे 6 [१०] इति नत्वादिएकाक्षरीनाममालाऽज्ञातकृता, ढं ढो यस्य स ढढ: = श्रेष्ठगति: शुभविहायोगतिमत्त्वाद्, अथवा ढम् = वरम् पूर्ववद्, ढः = ध्वनि: → ढ: पिशाचे भये काले जडे गायकरागयो: ध्वनौ + [४१] इत्येकाक्षरकाण्ड: कविराघवग्रथितः, ढं ढो यस्य स ढढः = श्रेष्ठध्वनि: सुमधुरस्वरेण गीयमानत्वाद् । .
इति ढकारेणार्हत्स्तुतिः ।। १० ।।
[ढ:] अर्हत्स्तुतिः