________________
दिनकरकिरणेषु परितापे ← [२६] इत्यजिरादि - एकाक्षरीनाममालाऽज्ञातगुम्फिता, न विद्यते ठो यस्य स अठः = परितापरहितः निश्चिन्तत्वात्, तस्य सम्बोधने ।
अथ कीदृशस्त्वम् ? ठठः ठः भूपः ठो महेशे महामन्त्रे मन्त्रिभूप- ← [ ४५ ] इति पूर्वोक्तविश्वशम्भुवचनाद्, ठः = सूनुः ठः सूनुः ← [ ४८] इत्येकाक्षरनाममाला सौभरिभणिता, ठस्य ठ इति ठठः = पार्थिवपुत्रः ननु विशेषणस्यास्य पूर्वोक्ताद्यविशेषणेन 'ठठे' इत्यनेन शब्दान्तरत्वेऽप्यर्थेन सह साम्यत्वात् पुनरुक्तिरिति चेत्... सत्यम् परिहायैनमर्थमन्यार्थस्योच्यमानत्वात् - ठः = अब्द: मेघ इत्यर्थः ठः = स्वनः शब्द इत्यर्थः ठः शङ्करे बृहद्भासे बृहद्ध्वनौ जटाब्दयोः बस्तौ स्वने ← [ ६६ ] इत्येकाक्षरीनाममाला कालिदासव्यासप्रोक्ता, ठ इव ठो यस्य स ठठः = अब्दशब्दः, अथवा ठम् = ज्ञानम् ठम् = अमृतम् → ठं ज्ञानं विवरं शून्यममृतम् ← [ ५० ] इत्येकाक्षरनाममाला सौभरिप्ररूपिता ठमेव ठं यस्य स ठठः = ज्ञानामृतवान् ज्ञानीत्यर्थः ।
-
सजलो जलदः प्रददाति सर्वेभ्यः स्वजलं यथा तथा सज्ञानोऽर्हन्नपि स्वज्ञानमित्याशयादेवाह ।
पुनः कीदृश: ? ठठठः • ठम् = ज्ञानम् ठम् = पयः →ठं ज्ञानं विवरं शून्यममृतं शारदं पयः ← [ ५० ] इत्येकाक्षरनाममाला विश्वशम्भुप्रणीता, ठः = मेघः ठः ..... . वृषभध्वनिमेघयो: ← [ ६६ ] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, ठमेव ठमिति ठठम्, तत्र ठवद् यः स ठठठः = ज्ञानवारिवारिदः । अथ ज्ञानप्रदानादज्ञानानामज्ञानविध्वंसनं स्पष्टमेव तदाह ।
पुनः कीदृश: ? अठाठठ: - ठः = ज्ञानी → ठः सूनुर्ज्ञानी ← [ ४८ ] इत्येकाक्षरनाममाला सौभरिनिर्मिता, ठम् = ज्ञानम्ठं ज्ञानम् ← [५० ] इति पूर्वोक्तविश्वशम्भूक्तेः ठः = क्षयः ठः पुमान् वृषभे शून्ये हासे से क्षये ← [ ६७ ] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, न ठा इत्यठा अज्ञानिन इत्यर्थ:, न ठमित्यठमज्ञानमित्यर्थः, अठानामठमित्यठाठम् अज्ञान्यज्ञानम्, तस्य ठो यस्मात् स अठाठठः = अज्ञान्यज्ञानक्षायकः ।
पुनः कीदृश: ? अठः ठः = वाचालः ठः सूनुर्ज्ञानी मध्वरिरेव च वाचाल: ← [४८] इत्येकाक्षरनाममाला सौभरिग्रथिता, न ठ इत्यठः अवाचाल: [ठः] अर्हत्स्तुतिः
५३