________________
विविवर: निर्दूषण इत्यर्थः सर्वसद्गुणसमेतत्वात् ।
पुन: कीदृश: ? झाझझः - झा = वारि → झा तु मदवार्यो: ? (वारिणो:) 6 [३५] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, झ: = दाता → झशब्दस्तु पुमान् दातरि - [६१] इति पूर्वोक्तकालिदासव्यासवचनाद्, झ: = रव: ध्वनिरित्यर्थः → रवो झकार: कथित: 6 [१४] इत्येकाक्षरकोष: पुरुषोत्तमदेवविहितः, झाया झ इति झाझ: = वारिर: धराधर इत्यर्थस्तद्वद् झो यस्य स झाझझ: = वारिररव: धराधरध्वनिरित्याशय: गाम्भीर्ययुक्तत्वात् ।
पुन: कीदृश: ? अझेझ: - झेः = भव: संसार इत्यर्थः → झेश्चर्मकृद् भव: + [४१] इत्येकाक्षरनाममाला सौभरिकृता, झ: = भ्रमणम् → झ: पुमान् भ्रमणे - इति पूर्वोक्तराघवकविवचनाद्, नास्ति झयो झो यस्य स अझेझः, यद्वा झयो झो यस्य स झेझः, न झेझ इत्यझेझ इत्यप्यपररीत्या समास:, अझेझः = अभवभ्रमण: अपवर्गोपलब्धेः, अथवा झेः = भव: न झेरित्यझे: मोक्ष इत्यर्थः, झ: = दाता → झशब्दस्तु पुमान् दातरि . [६१] इति पूर्वोक्तकालिदासोक्तेः, अझयो झ इति अझेझ: = मुक्तिदाता स्वयं मुक्त एव परानपि मोचयति नान्य इत्याशय: ।
इति झकारेणार्हत्स्तुतिः ।। ५ ।।
[झः] अर्हत्स्तुतिः