________________
P
टाकटीकरणे झ इव य: स झझझझः = एकान्तवादविचारचोरचारः मिथ्यामतापस्कर्तृत्वात्, स्पशो यथा स्तेनं प्रजापीडकं प्रकटीकुरुते तथैवार्हन्नेकान्तवादविचारमपीत्याशयः, अथवा झझझझः झम् = श्रेष्ठम् → झकारमर्धनारीशं शामं रक्तसमाकुलम् सर्वसौख्यकरं श्रेष्ठम् ← [२४] इत्येकाक्षरनाममालाऽज्ञातग्रथिता, झः = विचारः झः पुंलिड्गे जवे व्योम्नि विचारे च प्रकीर्त्यते ← [५० ] इति पूर्वोक्तामात्यमाधवोक्ते:, झम् = धनम् वने (धने) च भुवने झम् ← [३९] इति पूर्वोक्तविश्वशम्भुवचनाद्, झ: = दाता झशब्दस्तु पुमान् दातरि ← [६१] इत्येकाक्षरीनाममाला कालिदास - व्यासगुम्फिता, झञ्चादो झ इति झझ:, झझ एव झमिति झझझं तस्य झ इति झझझझः = श्रेष्ठविचारद्रविणदाता सत्यप्ररूपकत्वाद् न केवलं जिनेशितैकान्तवादापस्कर्ता किन्तु स्याद्वादपुरस्कर्तापीति भावः । अत एव विश्वत्रयाणां गुरुरिति विवदिषायामाह । पुनः कीदृश: ? झझै: : झम् = भुवनम् भुवने झम् ← [३५] इति पूर्वोक्तविश्वशम्भुवचनाद्, झै: = गुरु: झैर्गुरु: ← [४१] इत्येकाक्षरनाममाला सौभरिभणिता, झानां झेरिति झझैः = त्रिभुवनगुरु: त्रिलोकीतमोस्तकृत्त्वात् त्रयाणां भुवनानां परिग्रहार्थं बहुवचनं प्रयुक्तम् ।
यथा तरणिस्त्रैलोक्यतमोस्तकृत्तथैवार्हन्नप्यतः परमेश्वरस्य प्रतापः प्रभाकरबदेवेति व्याचिख्यासुराह ।
पुनः कीदृश: ? झझ: झः = पूषा झो रवावपि निर्दिष्ट: ← [१०] इत्येकाक्षरकोषो महाक्षपणकप्रोक्तः, झः = प्रताप: → झशब्दस्तु पुमान् दातरि हंसके प्रतापे ← [६१] इत्येकाक्षरीनाममाला कालिदासव्यासप्ररूपिता, झव झो यस्य स झझः = प्रद्योतनप्रतापः सर्वत्र प्रकाशकरत्वात्,
अथवा झम्
श्रेष्ठम् → झकारमर्धनारीशं शामं रक्तसमाकुलम् सर्वसौख्यकरं श्रेष्ठम् ← [२४] इति पूर्वोक्तैकाक्षरनाममालावचनाद्, झ: = सङ्गः → झो नष्टानिलसङ्गेषु ← [९] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातप्रणीता, झं झो यस्य स झझः = श्रेष्ठसङ्गः विरक्तिजनकत्वात् ।
पुनः कीदृश: ? अझ: झः = विवरम् झः विनष्टे विवरे ← [३८] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, न विद्यते झो यस्मिन् स अझः = [झ: ] अर्हत्स्तुति:
=
३१