________________
सौभरिविहिता, डौः = सिंहः → ङोश्च सिंहोऽथ * [३२] इत्येकाक्षरनाममाला सौभरिकृता, ‘डो'शब्दस्यायं प्रयोग: कारिकायां तु स्वरूपदर्शित्वं वेद्यम्, ङीषु डरिव य: स डीडौः = पार्थिवपञ्चानन: शौर्यशालित्वात् ।
डङ: + ङः = सिद्धिः → ङः शून्ये दानवाञ्छायां निन्दायामाधिसादरे सौदामिन्यां नदे सर्प सिद्धौ - [३०] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, डम् = सुखम् → डं वितानं सुखम् - [३२] इत्येकाक्षरनाममाला सौभरिगुम्फिता, डस्य हुं यस्य स डङ: = सिद्धिसुख: सिद्धिसुखनिमग्न इत्याशयः।
अडाङ: - ङः = भयङ्करः → (ङ)कार: ...... त्रिलिङ्गे च भयङ्करे * [४१/४२] इत्येकाक्षरशब्दमालाडमात्यमाधवभणिता, न ङ इत्यङ: अभयङ्कर इत्यर्थः परमसौम्यत्वात्, ङ = शायी शयनशील इत्यर्थः → (ङ)कार:...पुंसि व्यसनशायिषु + [४१/४२] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रोक्ता, न ङ इत्यङ: अशायीत्यर्थ: अप्रमत्तत्वात् शयनस्य प्रमादस्वरूपत्वात्, अडश्चासावडश्चेति अङाङः = अभयङ्कराशायी ।
ङीऔश्चासौ ङडश्चेति ङीङो-डङः, ङीङो-ङडश्चासावङाङश्चेति ङीडो-डङाङाङः = पार्थिवपञ्चानन-सिद्धिसुखा-ऽभयङ्कराशायी, तम् ।
पुन: कीदृशम् ? डाङडुङो-ऽडडम् । ___ डाङडुडौ: ङा: = जना: → डं क्लीबमञ्जने ना तु भैरवे विषये जने * [२४] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथप्ररूपित:, डम् = सुखम् पूर्वोक्तसौभरिवचनाद्, न ङमित्यडं दु:खमित्यर्थः, डुः = सुकर: → डुः = सुकर: । [३१] इत्येकाक्षरनाममाला सौभरिप्रणीता, डौः = सिंहः पूर्वोक्तसौभर्युक्तेः, ङानामङमिति डाङम्, ङाङमेव कुरिति ङाङडुस्तत्र ङौरिव य: स डाङडुङौः = जनपापसुकरसिंहः यथा सिंहप्रभावात् सुकरादिक्षुद्रजन्तूनां पलायनं तथैव जिनेशप्रभावात् दुःखस्यापीत्याशयः ।
परदुःखदूरीकरणं प्रोक्तमथ स्वयमदु:ख: सदुःखो वेत्याशङ्कायामाह ।
अडङ: - अडम् = दुखम् पूर्वोक्तेः, ङ = शून्य: → ङः शून्ये - [३०] इति पूर्वोक्तविश्वशम्भुवचनाद्, अङाद् ङ इति अङङ: = दुःखशून्य: दु:खरहित इत्यर्थ: निष्कर्मत्वात् । [ङ] अर्हत्स्तुतिः