________________
अथ वृत्तिप्रशस्ति:।
(वसन्ततिलका) श्रीशान्तिचन्द्रगुरुपीतकृपाकबन्धा: श्रीसोमचन्द्रगुरुपट्टवियत्पतङ्गाः । सक्ताः सदैव कलिकुण्डजिनेशभक्तौ राजेन्द्रसूर्यभिधसद्गुरवो जयन्तु ।। १ ।।
(उपजाति:) शिष्यास्तदीया मुनिराजपुण्यास्तपस्विन: खल्वमनस्विनश्च । तातास्तथा सद्गुरवो मदीया: सेवाकृत: सन्तु सदा प्रसन्ना: ।। २ ।। पञ्चम्यां श्याममाघस्य दीक्षाप्राप्तिदिने स्तवः । मवानापुरि प्रारब्धो लब्धगुर्वाशिषा मया ।। ३ ।। सम्मेताद्रौ समाप्तोऽह्नि तृतीये श्याममाधवे ।
वैक्रमे व्रत-षड्-व्योम-वाहमिते हि हायने ।। ४ ।। युग्मम् ।। तद्वितीयदिने यात्रां ससङ्घ: कृतवानहम् । अर्हद्भ्य: स्तुतिसूनानि समर्पितानि भावत: ।। ५ ।। तीर्थकृत: सदा सर्वेऽधमप्रधानकारणा: । चित्रमेकाक्षरं काव्यं तत: प्राप्तं प्रधानताम् ।। ६॥ कृतं नन्वीदृशं काव्यं कथं हि वर्णमालया ? । बालोऽहं नाधिकं जाने ततो हि वर्णमालया ।। ७ ।। दृश्यते सुन्दरं यत्तत् सुन्दरस्य गुरोहि नः । दृश्यतेऽसुन्दरं यत्तत् सुन्दरस्य, गुरोर्नहि ।। ८ ।। यदत्रोक्तमसूत्रोक्तं मतिमन्दतया मया । सकरुणैर्भवद्भिस्तच्छुध्यतां शुद्धबुद्धयः ! ।। ९ ।।
प्रशस्ति:
१७९