SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शून्ये धारणे मङ्गलेऽपि च गगने नकुलीशे च रक्ते नाके च वर्ण्यते ← [३३ - १] इति मेदिनीकोशो मेदिनीकरनिर्मितः, हम् = सुखम् हं क्लीबमस्त्रसुखयोः ← [८१] इत्येकाक्षरकाण्डः कविराघवविरचितः ह इव हम् यस्मिंस्तद् हहम् = राज्यादिसुखम् पुण्यप्रकर्षाद् गार्हस्थ्येऽपि जिनस्य परमबाह्यशर्मावाप्तिरत एवोक्तं सुरालयवत्सुखानुभूतिः प्राज्यं राज्यमेकचक्रिशासनमित्यादिकम्, तथापि विरक्तिभावात् तद् - हहं जहाति = त्यजति ‘ड’प्रत्ययश्च ओहांक् त्यागे ← [ ११३१] इति धातुपाठः श्रीहेमचन्द्राचार्यप्रणीतः, अथवा तथोत्तरपदस्थोऽयं घातके त्याजकेऽपि च← [ ६६६७ ] इति वाङ्मयार्णववचनाच्च, हहहः = सुरालयवत्सुखत्यक्ता सुरालयसुखवद्राज्यादेस्त्यक्तेत्याशय आत्मैकलक्षित्वात् संसारपराङ्मुखत्वाच्च तम् । पुनः कीदृशम् ? हम् हः = ईश्वरः → हकारः पुंसि जनने हरिण्यां हरिसिंहयोः ईश्वरे ← [११५] इत्येकाक्षरशब्दमालाऽमात्यमाधवग्रथिता, त्रिलोक्यधिपतित्वात् तम् । पुनः कीदृशम् ? हहम् ह = निवासः हः शूलिनि करे नीरे क्रोधे गर्भप्रभाषणे निवासे ← [४५] इत्येकाक्षरनाममाला सुधाकलशमुनिगुम्फिता, हा = त्याग: → हा त्यागे ← [८१] इत्येकाक्षरकाण्डः कविराघवभणितः, हस्य हा यस्य स हहः = अनगार: निष्परिग्रहित्वात्, तम् । पुनः कीदृशम् ? हहम् ← हः = वाजी अश्व इत्यर्थः हः शङ्करे हरे हंसे रणरोमाञ्चवाजिषु ← [८०] इत्येकाक्षरकाण्डः कविराघवप्रोक्तः, हः = गमनम् → हः कामशूरगमने ← [१५] इति नत्वादि - एकाक्षरीनाममालाऽज्ञातप्ररूपिता, ह इव हो यस्य स हहः = तुरङ्गमगमन : शुभविहायोगतित्वात्, तम् । P पुनः कीदृशम् ? हहहम् हः = भयङ्करः हः शिवे करे वीरे भयङ्करे ← [४२-४३] इत्यनेकार्थतिलकः सचिवमहीपप्रणीतः, हः कामः हः कामशूरगमने ← [१५] इति पूर्वोक्तनत्वादि-एकाक्षरीनाममालावचनात्, हः = वारणम् निवारणमित्यर्थः → हः कोपे वारणे ← [ ३६ ] इत्येकाक्षरकोषः पुरुषोत्तमदेवरचितः, हश्चासौ हश्चेति हहः = भयङ्करकामः परमसाधकानामप्यस्मात् स्याद्विनिपातोऽतोऽस्य [ : ] श्रीमहावीर स्वामिस्तुति: १६९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy