________________
पुनः कीदृश: ? ससस: + स: = क्रोध: → स: कोपे - [२४] इत्येकाक्षरकोशोऽज्ञातविरचितः, स: = वृष: → वृषे च स: - [११२] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, स: = सिंहः → सोऽस्रभुसिंहदुर्जने - [१५] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातगुम्फिता, स एव स इति ससस्तत्र-तभेदने स इव य: स ससस: = क्रोधवृषसिंहः निष्क्रोधीत्यर्थ: संसारपारगत्वात् क्रोधादे: संसारकारणमूलत्वात् तदुक्तं पुष्पमालायाम् → संसारकारणाणं मूलं कोहाइणो तेय * [२६७] इति, अथवा स: = जीव: → सो हंस:... जीव: - [१५९-१६२] इति प्रकारान्तरमन्त्राभिधानम्, सः = नक्षत्रम् → सं नक्षत्रे [१४०] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, स: = सूर्य: → स: सूर्य: + [९३] इत्येकाक्षरनाममाला सौभरिसमुदिता, सा एव सा इति ससास्तत्र स इव यः स ससस: = जीवनक्षत्रसूर्य: जिनेशितॄणां सर्वासुमन्नक्षत्रनेतृत्वात् ।
पुन: कीदृश: ? ससस: + स: = काम: → स: परोक्षे च कामे च . [४३] इत्येकाक्षरनाममालावररुचिभणिता, स: = द्रुः पादप इत्यर्थ: → स: पुंस्युमासुते वायौ देहभा:श्रीद्रुवाजिषु — [७८] इत्येकाक्षरकाण्ड: कविराघवप्रोक्तः, स: = प्रभञ्जन: पवन इत्यर्थ: → सकार: पुंसि साकारे गौरीपुत्रे प्रभञ्जने - [११२] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्ररूपिता, स एव स इति ससस्तत्र-तद्विच्छेदने स इव य: स ससस: = प्रद्युम्नपादपप्रभञ्जनः ।
पुन: कीदृश: ? स: + स: = सत्यवान् → स: पुंसि मदने वायौ परोक्षसूर्ययोरपि सनातने सत्यवति — [१३७] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, सत्यवचनार्ह इत्यर्थः, अर्हत्त्वात् तस्य तथात्वात् तदुक्तम् → अरिहंता सच्चवयणमरिहंता . [१७] इति चतुःशरणप्रकीर्णके ।
पुन: कीदृश: ? स: - स: = समर्थ: → स: सङ्गार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयो: - [१३७/१३८] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, सर्वं कर्तुमिति शेषः, अचिन्त्यसामर्थ्यवानित्यर्थ: सिद्धत्वात् तदुक्तम् → अचिंतसामत्था * [२५] इति विशेषणम् चतुःशरणप्रकीर्णके ।
[स:] श्रीपार्श्वनाथजिनस्तुतिः
१६३