________________
लेकाक्षरशब्दमालाडमात्यमाधवभणिता, ष: = अर्क: विभाकर इत्यर्थः → ष: शून्यार्काग्नि- 6 [१५] इति पूर्वोक्तनत्वादि-एकाक्षरीनाममालावचनाद्, षाणां ष इति षषस्तत्र ष इव य: स षषष: = विद्वद्वन्दविभाकर: सर्वज्ञत्वात्, तम् ।
पुन: कीदृशम् ? षषषम् - ष: = अतिरोष: क्रोध इत्यर्थ: ष: = अतिरोग: → षोऽतिरोषे (अतिरोगे) - [१०९] इति पूर्वोक्तविश्वशम्भुवचनाद्, षम् = भेषजम् → भेषजे च षम् - [११०] इत्यप्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, ष एव ष इति षष: = अतिरोषातिरोग: तत्र तन्निवारणे षवद् य: षषषम् = क्रोधरोगौषधम् निष्क्रोध: क्रोधानभिभूत इत्यर्थ: सुखित्वात् क्रोधाभिभूतस्य सुखविरहात् तदुक्तम् → कोहाभिभूया न सुहं लहंति + [३] इति गौतमकुलके, तद् । ___पुन: कीदृशम् ? षषषम् - षम् = श्रेष्ठम् → षं विरामके गर्भमोक्षे मर्षणे च परोक्षश्रेष्ठयोस्त्रिषु [७७] इत्येकाक्षरकाण्ड: कविराघवकृतः, षम् = मधु → षं सस्यं मधु + [९२] इत्येकाक्षरनाममाला सौभरिविहिता, ष: = रव: → रवे
चैत्यादिषु स्मृत: विशेष्यनिन: षशब्द: - [१११] इति पूर्वोक्ता-मात्यमाधववचनाद्, षं च तत् षञ्चेति षषम्, तद्वत् षो यस्य स षषष: = वरमधुरव: सुस्वरनामकर्मोदयात्, तम् ।
पुन: कीदृशम् ? षम् - ष: = निपुण: → ष: पुंसि कचे त्रिषु विज्ञे निपुणे - [भा.१, पृ.६४८] इति शब्दार्थचिन्तामणि: सुखानन्दनाथविरचितः, ...यकौशल्यात्, तम् ।
श्रीमहावीरनिर्वाणकल्याणकात् प्रपावने । पावापुर्यभिधे तीर्थे तृतीये ह्यक्षये दिने ।। १ ।। निर्माय नेमिनाथस्य षकारेण स्तुतिर्मुदा । त्रि:प्रदक्षिणीचक्रे च सिद्धिस्थलसरो मया ।। २ ।। युग्मम् ।।
इति श्रीनेमिनाथजिनस्तुतिः ।। २४ ।।
[ष:] श्रीनेमिनाथजिनस्तुति:
१५७