SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ इत्यनेकार्थतिलक: सचिवमहीपप्रणीत:, षम् = सुखम् → सुखे षं स्यात् - [११०] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, ष: षं यस्य स षष: = श्रेष्ठशर्मा मुक्तिसुखानुभूते: मुक्तिसुखस्यैव प्रशस्यतमत्वात्, तम् । परमकृपालुत्वादन्यस्मायपि तद्रातीति व्याचिख्याषुराह । पुन: कीदृशम् ? षषम् - ष: = अपवर्ग: → षोऽतिरोषेऽपवर्गे - [१०९] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, षम् = सुखम् → सुख्खे षं स्यात् + [११०] इति पूर्वोक्तविश्वशम्भूक्तेः, स्यात् षस्य षं यस्मात् स षष: = सिद्धिसुखराता परमकारुण्यवत्त्वात्, तम् । पुनः कीदृशम् ? षषम् + ष: = श्रेष्ठ: → ष: श्रेष्ठे - [१९] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रसूरिकृता, षः = कच: → ष: कचे पुंसि विज्ञेय: - [३७] इति मेदिनीकोशो मेदिनीकरविहितः, षा: षा यस्य स षष: = वरवाल: परमपरमाणुभिर्निष्पन्नत्वात् पूजितैः पूजितत्वाच्च, तम् । पुन: कीदृशम् ? षम् - ष: = गम्भीरलोचन: → षश्च गम्भीरलोचने * [३१] इत्येकाक्षरकोषो महाक्षपणकप्रणीत:, तम् । पुन: कीदृशम् ? षषम् - षा: = मानवा: → ष: पुंसि मानवे - [पृ.११६३] इति शब्दस्तोममहानिधिस्तारानाथविरचितः, ष: = श्रेष्ठ: → षकारस्तु मत: श्रेष्ठे - [२६] इत्येकाक्षरीनानार्थकाण्ड: श्रीधरसेनाचार्यप्ररूपितः, षेषु ष इति षष: = मानवश्रेष्ठः सर्वगुणसंपन्नत्वात्, तम् ।। पुन: कीदृशम् ? षषम् - षम् = पण्डित: → पण्डितेपि षमादृतम् - [११०] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, ष: = इष्टः → ष: सदार: स्यात् तथेष्टे - [४३] इत्येकाक्षरनाममाला सुधाकलशमुनिगुम्फिता, षाणां ष इति षष: = पण्डितानामभीष्टः ज्ञानोपलब्धे: संशयनिराकृतेश्च, तम् । किं वैशिष्ट्यं श्रीनेमिजिनेशितरि ? यत: पण्डितानामपीष्ट इत्याशङ्कायामाह। पुनः कीदृशम् ? षषषम् + षः = सानुः विद्वानित्यर्थ: → ष: प्रक्षरे सानुवेधसो: [१०९] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, ष: = निवह: वृन्दमित्यर्थ: → निवहे चैव रवे चैत्यादिषु स्मृत: विशेष्यनिज: षशब्द: [१११] [ष:] श्रीनेमिनाथजिनस्तुति: १५५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy