________________
मजुला
यो मुनिसुव्रत: (मुनिवत् सुव्रत:) स नमि: (नमन्ति प्रह्वीभवन्ति परीषहोपसर्गा अमुमिति, अथवा नमन्ति सर्वेऽपि व्रतप्रभावविशेषादिति) 'नम्'- धातो: 'इन् प्रत्यय: → सर्वधातुभ्य इन् — [५५७] इत्युणादिपाठः, तथा च गर्भगते जिने रिपुराजराजिभि: प्रणति: कृता, इत्यनेन सम्बन्धेन प्राप्तस्य श्रीनमिनाथजिनेश्वरस्य स्तुतिरुद्यते।
शश: शश इति ।
श्रीनमिः = श्रीनमिनाथस्वामी सदा = सर्वदा जयतात् = विजयं प्राप्नुयाद् इति क्रियाकारकसम्बन्ध: → जिं अभिभवे [८] इति हैमधातुपाठः ।
अत्र 'जयतात्' इति क्रियापदम्, क: कर्ता ? श्रीनमि:, कदा ? 'सदा' अन्यानि श्रीनमिनाथस्य विशेषणानि ।
कीदृश: श्रीनमि: ? शश: + श: = वरेण्य: श्रेष्ठ इत्यर्थ: → श: परोक्षे समाख्यात: शान्तौ शोभावरेण्ययो: - [३३] इत्यभिधानादि-एकाक्षरीनाममालाज्ञातप्रणीता, शम् = धर्म: → शं धर्मे - [३०] इति विश्वलोचनकोश: श्रीधरसेनाचार्यरचित:, श: शं यस्य स शश: = प्रकृष्टधर्मप्ररूपक: सत्यसमेतत्वात् सत्यस्यैव प्रशस्यतमत्वात् जिनधर्मस्तु जिनवचनादेवावगम्यते जिनवचश्च शास्त्राल्लभ्यते शास्त्रञ्चासत्यशून्यमिति बिभणिषुराह ।
पुन: कीदृश: ? शश: - शम् = सत्यम् → शं सत्ये 6 [१३३] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, शम् = शास्त्रम् → शं च शास्त्रं निगद्यते - [२९] इत्येकाक्षरकोश: पण्डितमनोहरकृत:, शं शे यस्य स शश: = सत्यशास्त्र: सत्ययुक्तशास्त्रवक्तेत्यर्थः रागद्वेषरहितत्वात्, तयोरसत्यजननबीजत्वात् तत्प्रोक्तम[श:] श्रीनमिनाथजिनस्तुति: १४५