SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [२०] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, वम् = रक्तम्वं सुखं वसनं रक्तम् ← [८८] इत्येकाक्षरनाममाला सौभरिनिर्मिता, वं वं यस्य स ववः = शुक्लरुधिरः आर्हतातिशयात्, तम् 1 पुनः कीदृशम् ? ववम् ” वम् = गन्धः सुगन्ध इत्यर्थः → शिक्षाभृद्गन्धगतिषु वा स्त्री वं तु नपुंसके ← [ १०४ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवकृता, वम् वपुः वं सुखं वसनं रक्तं वपुः ← [८८] इत्येकाक्षरनाममाला सौभरिविरचिता, वं वे यस्य स ववः = सुगन्धितनुमान् पुण्यप्रकर्षात्, तम् । = पुनः कीदृशम् ? वम् ं वः = सुखी → वः पङ्गुः सुखी ← [ ८६ ] इत्येकाक्षरनाममाला सौभरिविहिता, परमशर्ममहोदधिनिमग्नत्वात्, तम् । पुनः कीदृशम् ? वम् • वः = शुभः → वः सान्त्वने च वाते च वरुणे वन्दने ( शुभे) ← [ ४९४७ ] इति वाङ्मयार्णवः पण्डितरामावतारशर्मप्रणीतः, कल्याणकारित्वात्, तम् । पुनः कीदृशम् ? वववम् वः = विकार: विकारे वः प्रकीर्तितः ← [३२] इत्यभिधानादि- एकाक्षरीनाममालाऽज्ञातकृता, वम् = वसनम् वं सुखं वसनम् ← [८८] इति पूर्वोक्तसौभरिवचनाद्, वः = वह्निः → वः पुमान् गत्वरे वायौ संयमे वरुणे स्मरे कान्तारेऽग्नौ ← [ १२५ ] इत्येकाक्षरीनाममाला कालिदासव्यासविरचिता, व एव वमिति ववम्, तत्र - तज्ज्वलने व इव यः स वववः = विकारवसनवह्निः वेदोदयरहितत्वान्निष्कामित्वाच्च, तम् । पुनः कीदृशम् ? वववम् वः = विषमायुधः स्मर इत्यर्थः, → वः पुमान् सान्त्वने वायौ संयमे वरुणे स्मरे ← [७२] इत्येकाक्षरकाण्डः कविराघव-निर्मितः, वः = विरोचनः वह्निरित्यर्थः वो वह्निः ← [ २९ ] इत्येकाक्षरकोषो महाक्षपणकविहितः, वः = वारि जलसंज्ञश्च खड्गीशोऽपि वकारक: ← [ ४७ ] इत्येकाक्षरीमातृकाकोशोऽज्ञातकृतः, व एव व इति ववः, तत्र तदुपशान्तौ व इव यः स वववः = विषमायुधविरोचनवारि विरक्त्युपदेशकत्वाद् वैराग्यजननहेतुत्वाच्च, तम् । पुनः कीदृशम् ? वववम् वम् = सुखम् → वं सुखम् ← [ ८८ ] इति पूर्वोक्तसौभरिवचनाद्, वः = वनम् जलमित्यर्थः, वः = वारिद: मेघ इत्यर्थः → [व] श्रीमुनिसुव्रतस्वामिस्तुतिः १४१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy