________________
मञ्जुला
य आभ्यन्तरारिजयने मल्लः स अवश्यं मुनिसुव्रत: (मुनिरिव सुव्रतः), अथवा स मुनिः = सर्वज्ञः मनुते जगत्त्रिकालावस्थामिति मुनिः → मनूयि बोधने ← [ १५०७ ] इति है मधातुपाठः, मनेरुच्च ← [ ५६२] उणादिपाठः, इत्यनेन उपान्त्यस्याकारस्योत्वम्, मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः - इत्यनेन सम्बन्धेनागतस्य श्रीमुनिसुव्रतस्वामिनः स्तुतिरुच्यते ।
ववं ववमिति ।
अहं मुनिसुव्रतम् = श्रीमुनिसुव्रतस्वामिनम् वन्दे = नमामि वदुङ् स्तुत्यभिवादनयोः ← [ ७२१] इति हैमधातुपाठ:, इति क्रियाकारकसण्टङ्कः, कीदृशोऽहम् ? ववः • वः = संयमः वः पुमान् गत्वरे वायौ संयमे ← [ १२५ ] इत्येकाक्षरीनाममाला कालिदासव्यासप्ररूपिता, वम् = वसनम् →वं सुखं वसनम् ← [८८] इत्येकाक्षरनाममाला सौभरि प्रोक्ता, वस्य वं यस्य स ववः = संयमवसन: श्रीवीरवेषधारीत्यर्थः, एतेन स्वस्य दीक्षितत्वं व्याख्यातम् ।
अत्र ‘वन्दे' इति क्रियापदम्, कः कर्ता ? 'अहम्', कीदृशोऽहम् ? ' वव:', कं कर्मतापन्नम् ‘मुनिसुव्रतम्', अन्यानि श्रीमुनिसुव्रतस्वामिनो विशेषणानि ।
कीदृशं श्रीमुनिसुव्रतस्वामिनम् ? ववम् वः = बुधः → वो बुधः ← [२९] इत्येकाक्षरकोषो महाक्षपणकप्रणीतः, वः = प्रबोधः वः पुमान् स्वान्तगे वाते मरणे संयमेऽधरे प्रबोधे ← [ १०३ / १०४ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, वानां वो यस्मात् स ववः = विबुधप्रबोधक: विद्वच्छिरोमणि श्रीगणभृदादीनां प्रतिबोधकरत्वात्, तम् 1
पुनः कीदृशम् ? ववम् - वम् = श्वेतम् → वकारं वरुणं विद्यात् श्वेतम् ←
[व] श्रीमुनिसुव्रतस्वामिस्तुतिः
१३९