________________
[अदादि.-पृ.१४६] इति माधवीयाधातुवृत्तिः सायणाचार्यनिर्मिता, → आतो डोऽह्वावाम: - [सि.है.श.-५/१/७६] इत्यनेन 'ड'प्रत्ययः, तम् ।।
ननु प्रोक्तं तीर्थकृतो दिव्यसुखप्रदातृत्वमलञ्च तेन मोक्षाभिलाषुकाणामाकाङ्क्षन्ति च ते सर्वदा शिवशर्मैव नान्यदस्ति च किं जिनस्य तद्दायकत्वं न वेत्याशङ्कायामस्त्येवेति निगदन्नाह ।
पुन: कीदृशम् ? लललम् + ल: = व्यापक: → लश्चन्द्रः .... व्यापक: - [१४८] इति प्रकारान्तरमन्त्राभिधानम्, लम् = सुखम् → लं लक्षणं सुखम् । [८५] इति पूर्वोक्तसौभरिवचनात्, ल एव लमिति ललम् = व्यापकसुखं शिवशर्मेत्यर्थः ल: = दानम् → लो दाने च प्रकीर्तित: - [३१] इत्येकाक्षरकोष: पुरुषोत्तमदेवविरचित:, स्यात् ललस्य लं यस्मात् स ललल: = शिवशर्मप्रदाता तम्, न केवलमर्हन् स्वर्गसुखमेव ददाति किन्तु शिवशर्मापीत्याशयः ।।
न च स्वर्गापवर्गशर्मफलप्रदानादेवावधिरर्हतः समागता सर्वफलप्रदातृत्वादित्याशयादाह ।
पुन: कीदृशम् ? लम् - लम् = सर्वफलप्रदम् → लकारं शक्रबीजं स्यात् पीतं सर्वफलप्रदम् - [४३] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, परमकृपालुत्वादप्रतिमसामर्थ्याच्च, तद् । ___पुन: कीदृशम् ? ललम् - ल: = भूमि: पृथ्वीत्यर्थ: → लश्च भूमौ - [३०] इत्येकाक्षरकोष: पुरुषोत्तमदेवगुम्फित:, ल: = इन्दुः → लो दीनेन्दु- [१४] इति पूर्वोक्तनत्वादि-एकाक्षरीनाममालावचनाद्, ले ल इव य: स लल: = अवनिचन्द्रमा: सर्वासुमन्नक्षत्रसेव्यत्वात्, तम् ।।
नन्ववनिस्थासुमतां सेव्यत्वमस्त्वथामरावतीस्थामरादीनामर्चनीयत्वमस्ति न वेति जिज्ञासायामाह।
पुन: कीदृशम् ? ललम् + ल: = इन्द्रः → लश्चालौ च बिडौजसि . [१२३] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, लानां ल इति लल: = इन्द्राणामपीन्द्रः पुरन्दरादिभिः सर्वैः पूजनीयत्वात्, तम् ।
पुन: कीदृशम् ? लललम् - ल: = भयम् → लश्च भूमौ भये - [३०] इत्येकाक्षरकोष: पुरुषोत्तमदेवप्रणीत:, लम् = विषम् → लं लक्षणं सुखं नाम रक्षः [ल:] श्रीमल्लिनाथजिनस्तुति: १३५