________________
मञ्जुला
योऽरं संसारसागरस्य अरम् = तटम् प्राप्नोति स कामाक्रोधाद्याभ्यन्तरशत्रूणां जयने मल्लः स्यादेव वीर्यानन्त्यात्, मल्ल एव मल्लिरित्यनेन सम्बन्धेनायातस्य श्रीमल्लिनाथजिनस्य स्तुति: प्रोच्यते ।
रेल ! - रे सम्बोधने → सम्बोधनेग भो: प्याट् पाट् हे है हंहो अरेऽपि रे - [१५३७] इत्यभिधानचिन्तामणि: श्रीहेमचन्द्राचार्यप्रणीतः, ल: = दीन: → लो दीनेन्दु- [१४] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातप्ररूपिता, तस्य सम्बोधने रे ल ! = हे दीन ! त्वम् मल्लिनाथम् = श्रीमल्लिनाथजिनेश्वरम् जुषस्व = सेवस्व इति क्रियाकारकयोग: → जुष् मुदि सेवे - [३१०-३११] इति कविकल्पद्रुमः वोपदेवप्रणीत:।
कीदृश रे ल !? लल ! • लम् = सुखम् → लं लक्षणं सुखम् - [८५] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, लम् = अपूर्णम् → अपूर्णे लं प्रकीर्तितम् . [१०५] इत्येकाक्षरनाममालिका विश्वशम्भुभणिता, लेन लमिति ललम् = सुख्खेनापूर्णम्, तस्य सम्बोधने । ___अत्र 'जुषस्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहृतं पदम्, कं कर्मतापन्नम् ? 'मल्लिनाथम्', किं सम्बोधनम् ? 'रे ल !', 'लल' इति तु तस्य विशेषणम्, अन्यानि श्रीमल्लिनाथस्य विशेषणानि ।
कीदृशं श्रीमल्लिनाथम् ? लललम् = ल: = स्वर्ग: → लो दीप्तौ द्याम् । [३०] इत्येकाक्षरकोष: पुरुषोत्तमदेवप्रणीत:, लम् = सुखम् → लं लक्षणं सुखम् * [८५] इति पूर्वोक्तसौभरिवचनाद्, लस्य लमिति ललम् = स्वर्गसुखम्, ललं लाति = ददाति इति ललल: = स्वर्गसुखदाता → राति लाति द्वावपि दानार्थौ .
[ल:] श्रीमल्लिनाथजिनस्तुति:
१३३