________________
मजुला
य: कुन्थुः (कौ = अवन्याम् सर्वजीवत्राता) स तु अरम् = शीघ्रम् संसारसागरस्य अरम् = तटम् अवाप्नोति सर्वदेहिनामापयति च परमकारुण्यादित्यनेन सम्बन्धेनायातस्य श्रीअरनाथजिनस्य स्तुति: कथ्यते ।
रररमिति ।
हे रर ! र: = अनाथ: → र: स्यात् पुमान् शिवे वह्नौ वजे कामे रवौ गुरौ, अनाथे - [९७] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, र: = नर: → अथ र: स्मरे तीव्र वैश्वानरे शब्दे रामे वजे नरे - [३६/३७] इत्यनेकार्थतिलक: सचिवमहीपप्रणीत:, रश्चासौ रश्चेति रर: = अनाथनर: तस्य सम्बोधने हे रर ! त्वम् सर्वदा अरम् = श्रीअरनाथजिनेश्वरम् ईडिष्व = स्तुष्व इति क्रियाकारकयोजना → ईड स्तुतौ - [१६६७] इति बृहद्धातुकुसुमाकर: ।
अत्र 'ईडिष्व' इति क्रियापदम् ? क: कर्ता ? 'त्वम्' अध्याहृतमिदं पदम्, कं कर्मतापन्नम् ? 'अरम्', कदा ? 'सर्वदा', किं सम्बोधनम् ? ‘रर', अन्यानि निखिलानि श्रीअरनाथस्य विशेषणानि ।
कीदृशं श्रीअरस्वामिनम् ? रररम् = रम् = धनम् → रं रत्नं रोदनं धनम् * [८३] इत्येकाक्षरनाममाला सौभरिनिर्मिता, रम् = धान्यम् → नपुंसके रशब्दस्तु धान्यरोमाञ्चकुक्षिषु + [९८] इत्येकाक्षरशब्दमालाऽमात्यमाधवविरचिता, रा = समृद्धिः → रा समृद्धिः स्यात् + [८२] इत्येकाक्षरनाममाला सौभरिकृता, रञ्च रञ्चेति ररे तयो रा यस्य स ररर: = धनधान्याभ्यां समृद्धः
अनेकजीवपालयितृत्वाच्चक्रित्वाच्च, तम् । [रः] श्रीअरनाथजिनस्तुतिः १२५