________________
परिग्रहात्, भुवनत्रयव्यापकयशा इत्यर्थस्तदुक्तम् → भुवनत्रयव्यापकं यशस्तेषाम् * [१०४८] इति विशेषावश्यकभाष्यवृत्तौ, तम् ।
पुन: कीदृशम् ? ययम् " य: = चन्द्रः → य: सूर्ये तारके चन्द्रे - [९८] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, या = शोभा आभेत्यर्थ: → या स्त्रियां यानमञ्जयो: शोभालक्ष्म्योश्च 6 [६३] इत्येकाक्षरकाण्ड: कविराघवकृतः, य इव या यस्य स यय: = शशिशोभ: चन्द्राभ इत्यर्थ: परमाह्लादकत्वात्, तम् ।
पुन: कीदृशम् ? ययम् = यः = श्रेष्ठ: → य: कथित: श्रेष्ठ: - [२९] इति पूर्वोक्ताभिधानादि-एकाक्षरीनाममालावचनाद्, य: = दानम् → याने (दाने) यातरि यश्छागे - [२५] इत्येकाक्षरकोषो महाक्षपणकगुम्फितः, यो यो यस्य स यय: = प्रशस्यदानकर्ता मुक्तिप्रदायकत्वात्, तस्यैव प्रशस्यतमत्वात्, तम् ।
पुन: कीदृशम् ? यम् - य: = पाता दुःखदौर्भाग्यदारिद्र्यदुर्गत्यादिभ्यो रक्षक इत्यर्थः → य: स्त्र्यङ्गे निलये वायौ यमे धातरि पातरि + [१११] इत्येकाक्षरीनाममाला कालिदासव्यासगुम्फिता, सन्मार्गोपदेशकत्वाद्, सन्मार्गोपदेशाद् दु:खादीनां निवृत्तेः, तम् ।
पुन: कीदृशम् ? यययम् • यम् = संसार: यम् = सागर: → यं संसारे सरित्पतौ - [१००] इति पूर्वोक्तविश्वशम्भुवचनाद्, य: = तारक: → य: सूर्ये तारके - [९८] इति पूर्वोक्तविश्वशम्भुवचनाद्, यमेव यमिति ययम् = संसारसागरः तस्माद् य इति ययय: = संसारसागरात् तारक: परमकृपालुत्वात् संसारदुःखार्ति द्रष्टुमप्रभुत्वाच्च, तम्।
___ पुन: कीदृशम् ? यम् - य: = ईश्वर: → य: पुञ्जोऽसु देवी सूनुरीश्वर: 6 [७९] इत्येकाक्षरनाममाला सौभरिप्रणीता, अनन्तैश्वर्योपभोक्तृत्वात्, तम् ।
____पुन: कीदृशम् ? यम् , य: = दाता → यस्त्यागे निलये वायौ यमे दातरि * [५६] इति पूर्वोक्तेरुगपदण्डाधिनाथवचनाद्, परमौदार्यात्, तम् । ननु प्रशस्यतमदानदातृत्वं पूर्वं प्रतिपादितमत: पुन: कथने पुनरुक्तिरिति चेत्.... न आशयपार्थक्यात्, पूर्वं तु मुक्तिदानेन भावदानमेव निगदितमत्र तु द्रव्यदानस्यैवाशयात्, द्रव्यादिद्रव्यदानमपि जिनादेव प्राप्तव्यमपरस्मान्नेत्याशय: । यः] श्रीकुन्थुनाथजिनस्तुति: . १२१