________________
राशिस्तथैवार्हतोऽपि पृथक्पृथगनेकाभिग्रहत्यागादिकर्तृत्वादियमुक्ति:, तद् ।
ननूक्तमर्हत: परमत्यागित्वं न स्याद् यदि लोकानां तेन त्यागभावाभिवर्धनम् तर्हि किं तेनेत्याशङ्कायामाह।
पुनः कीदृशम् ? यययम् - य: = त्याग: → त्यागे च यकार: कथितो बुधैः * [२६] इत्येकाक्षरकोश: पण्डितमनोहरविहितः, य: = भाव: → यकार: पुंसि पवने यमे धातरि यातरि त्यागे भावे - [९४] इति पूर्वोक्तामात्यमाधववचनाद्, य: = दाता → यस्त्यागे निलये वायौ यामे दातरि + [६३] इत्येकाक्षरकाण्ड: कविराघवगुम्फितः, यस्य य इति ययः, ययस्य य इति ययय: = त्यागभावदाता, न स्वयमेव त्यक्ताऽपि तु जीवानामपि त्यागभावोत्पत्तिकृदित्याशयः, त्यागधर्मप्ररुपकत्वात् विरतिधर्मोपदेशकत्वाच्च, तम् ।
पुन: कीदृशम् ? यम् - य: = श्रेष्ठ: → य: कथित: श्रेष्ठ: 6 [२९] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातग्रथिता, पुरुषोत्तमत्वाद् गुणरत्नैरलङ्कृतत्वाच्च, तम् ।
पुन: कीदृशम् ? ययम् - यम् = संसार: → यं संसारे - [१००] इति पूर्वोक्तविश्वशम्भुवचनाद्, य: = कल्पपादप: → यकार: पुंसि पवने यमे धातरि यातरि त्यागे भावे चये लिप्ये विनये कल्पपादपे - [९४] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, ये य इव य: स यय: = संसारकल्पतरु: सर्वेषणापूरकत्वात्, तम् ।
पुन: कीदृशम् ? ययम् • य: = वायु: → यस्त्यागे निलये वायौ - [५६] इति नानार्थरत्नमालेरुगपदण्डाधिनाथप्रणीता, य: = यश: → यो वातयशसो: * [१९] इति विश्वलोचनकोश: श्रीधरसेनाचार्यनिर्मित:, य इव यो यस्य स यय: = वायुवद् यशस्वी ननु यथा वायोरस्थैर्यं तथैव तीर्थकरयशसोऽपि चलत्वमिति चेत्.... मैवम् अनौचित्याद् वायोर्यथा सर्वदिग्वर्तित्वं तथैव तद्यशसोऽत्रापेक्षणात्, उपमोपमेयभावे उपमानस्य सर्वधर्माणामुपमेयेऽवतारणेन भवितव्यमेवेति न नियम: किन्त्वेकादिधर्मसाम्येनाऽपि उपमोपमेयभावस्य ग्रहप्रसिद्धेरौचित्यस्यैवोपमाया: सर्वत्र
[य:] श्रीकुन्थुनाथजिनस्तुति:
११९