SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ च लक्ष्म्यां माने - [९२] इति पूर्वोक्तामात्यमाधववचनाद्, न विद्यते मो यस्य स अम: = मानरहितः, तम्, अथवाऽयमेवार्थोऽनया रीत्या-म: = मानी → मानी विष: सूर्यो मकारक: - [४३] इति पूर्वोक्तैकाक्षरीमातृकाकोशवचनाद्, न म इति अम: = अमानी मानशून्य इत्यर्थ: विगतरागद्वेषत्वात्, तम् । ____ ननु पूर्वम् ‘अमममम्' इत्यनेन विशेषणेनैव भावोऽयं प्रदर्शित: किं पुनर्व्यर्थेनैतद्विशेषणेनेति चेत्..... न पूर्वममदत्वं प्रोक्तमधुनाउमानित्वस्योच्यमानत्वात्, न च कृतमनेनापि मदमानयोस्तुल्यार्थित्वादिति वाच्यम् ‘आनन्दमोहयो: सङ्गमो मदः' - 'मत्समोऽन्यो नास्तीति मननं मान:' [(३१२)-(३१७)] इति श्रीदेवसागर-गणिकृतव्युत्पत्तिरत्नाकरोक्तेः पार्थक्याद् । नन्वस्तु जिनेशितरि मानरहितत्वमथ मायाया रहितत्वं सहितत्वं वा ? इति जिज्ञासायामाह । पुनः कीदृशम् ? अमम् छ म: = मायावी → मो मन्त्रे मन्दिरे माने सूर्ये चन्द्रे शिवे विधौ मायाविनि - [९४] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, न म इति अम: = निर्माय: सरल इत्यर्थः सूनृतप्रदर्शित्वात् विश्वसनीयत्वाच्च मायाया असूनृतजननीत्वान्मायायुक्तस्य चाविश्वास्यत्वात् तदुक्तम् → असूनृतस्य जननी परशुः शीलशाख्रिन: जन्मभूमिरविद्यानां माया दुर्गतिकारणम् - [४१५] इति योगशास्त्रे → मायाशील: पुरुषो न करोति किञ्चिदपराधं सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहत: 6 [२८] इति प्रशमरतिप्रकरणे, तम्, मानमायोपलक्षणात् सर्वकषायरहितत्वमवगन्तव्यम् । ____ पुनः कीदृशम् ? मम् - म: = विभुः नायक इत्यर्थः → मो विधौ (विभौ) — [३४] इत्यनेकार्थतिलक: सचिवमहीपप्रणीत:, विश्वत्रयीनेतृत्वात्, तम् । पुन: कीदृशम् ? मम् " मम् = शुभम् → क्लीवे मं मूलके शुभे . [१०७] इत्येकाक्षरीनाममाला कालिदासव्यासगुम्फिता, कल्याणकारित्वात्, तद् । [म:] श्रीशान्तिनाथजिनस्तुति: ११३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy