SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सच्चमणवाइं च ← [ १५७८ ] इति विशेषावश्यकभाष्ये, तम् I अलं केवलं सत्यप्ररूपकत्वेन, सार्थक्यञ्च तस्य सह गाम्भीर्येणैवास्त्येवार्हतां शब्दानां गाम्भीर्यं पर्जन्यवत्, तदेवाह । पुनः कीदृशम् ? भभम् - भः = जलद: मेघ इत्यर्थः भः शम्भौ भ्रमरे भावे शुक्रेऽशौ जलदे पुमान् ← [ ५२] इति नानार्थरत्नमालेरुगपदण्डाधिनाथप्रणीता, भः = शब्द: भ... सूर्यशब्दयोः ← [ १०४] इति पूर्वोक्तकालिदासव्यासोक्तेः, भ इव भा यस्य स भभः = पर्जन्यवद् गम्भीरध्वनिः, वचनातिशयादर्हतः पञ्चत्रिंशद्वाग्गुणमध्येऽस्योक्तत्वात्, तम् । " पुनः कीदृशम् ? भभम् भः = शुक्लः भः शुक्लगिरिभूपतौ ← [१३] इति पूर्वोक्तनत्वादि- एकाक्षरीनाममालावचनाद्, भः = भावः भः शम्भो भ्रमरे भावे ← [ ५९ ] इत्येकाक्षरकाण्ड: कविराघवविरचितः भो भो यस्य स भभः = शुक्लभाव: शुक्लध्यानवानित्यर्थः क्षपकश्रेणिसंप्राप्तेः तम् । पुनः कीदृशम् ? भम् भम् = अनामयः आमयो रोग:, न विद्यते आमयो यस्य स अनामयो निरामय इत्यर्थः भकारं भार्गवं ज्ञेयं ज्योतिषाभमनामयम् ← [३८] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, असातस्यानुदयात्, तद् । पुनः कीदृशम् ? भभभभभम् भः = भौम: भौमे भः शब्दः ← [३८] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, भम् = गगनम् → भं क्लीबे गगने ← [६०] इत्येकाक्षरकाण्डः कविराघवविरचित:, भः = सुधीः → भकारः पुंसि जलभे(दे) छादे शम्भौ शिलीमुखे सुधीः ← [८८/८९] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, भम् = नक्षत्रम्भं नक्षत्रं बुधैरुक्तम् ← [२३] इत्येकाक्षरकोषो महाक्षपणकरचितः, भः = सूर्य: भः शोभा भ्रमरे भावे शुक्रेऽशौ जलदे पुमान् आकाशे च मयूरे च प्रभावे सूर्यशब्दयोः ← [१०४] इति पूर्वोक्तकालिदासव्यासवचनाद्, भ एव भमिति भभम् = भौमगगनम् भा एव भानीति भानि = सुधीनक्षत्राणि, भभे भभानीति भभभभानि तत्र भ इव यः स भभभभभः = भौमगगनसुधीनक्षत्रसूर्यसमानः अवन्यज्ञानतिमिरनिवारकत्वात् सर्वदर्शित्वाच्च, तम् । पुनः कीदृशम् ? भभम् भम् = श्रेष्ठम्भकारं भार्गवं ज्ञेयं [भ] श्रीधर्मनाथजिनस्तुतिः १०५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy