________________
मञ्जुला
योऽनन्तज्ञानवान् स एव धर्मप्ररूपकः सत्यवक्तृत्वाद् वीतरागत्वाच्चेत्यनेन सम्बन्धेनागतस्य श्रीधर्मनाथस्य स्तुतिर्दर्श्यते ।
भभं भभमिति ।
भो भभ ! भः = भ्रमाकुलः भोऽतिभीते भ आकुले (भ्रमाकुले) ← [ ९९ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, भः = भूपतिः भ शुक्लगिरिभूपतौ ← [१३] इति नत्वादि - एकाक्षरीनाममालाऽज्ञातरचिता, भश्चासौ भश्चेति भभस्तस्य सम्बोधने भो भभ ! = हे भ्रमाकुलभूपते ! त्वम् धर्मम् श्रीधर्मनाथस्वामिनं हृदये = अन्तःकरणे धर = धत्स्व धंग् धारणे ← [ ८८७] इति है मधातुपाठ:, इति क्रियाकारकान्वयः ।
=
अत्र ‘धर' इति क्रियापदम् कः कर्ता ? ' त्वम्', कं कर्मतापन्नम् ? ‘धर्मम्’, कुत्र ? ‘हृदये', किं सम्बोधनम् ? 'भभ !’, अपराण्यखिलानि श्रीधर्मनाथस्वामिनो विशेषणानि ।
ननु श्रीधर्मनाथस्वामिनं हृदि धारणाद् भ्रमाकुलभूपतेः को लाभ: ? स्वभ्रमनिवृत्तिः सत्यज्ञानप्राप्तेस्तदेवाह ।
कीदृशं श्रीधर्मनाथस्वामिनम् ? भभम् भः = सत्यवाद: → भकारः श्रीकण्ठे चन्द्रे वह्नौ विभावसौ सत्यवादे ← [ ९९ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, भः = शब्द: भः शोभा भ्रमरे भावे शुक्रेऽशौ जलदे पुमान् आकाशे च मयूरे च प्रभावे सूर्यशब्दयोः ← [ १०४] इत्येकाक्षरीनाममाला कालिदासव्यासग्रथिता, भो भे यस्य स भभः = सत्यशब्दवान् सत्यप्ररूपक इत्यर्थः सर्वज्ञत्वाद् भयरागद्वेषमोहाभावात् तदुक्तम् → भयरागदोसमोहाभावाओ [भ] श्रीधर्मनाथजिनस्तुतिः
ܕ
१०३