SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गन्धे वासे वृन्दे च ६ [८६/८७] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, बा = वन्दनम् → वन्दने वदने वादे वेदनायां च बा स्त्रियाम् - [८८] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, बाश्चामी बाश्चेति बबास्तेषां ब इति बबबस्तस्यबा यस्य स बबबब: = प्रकृष्टपुरुषप्रकरैः प्रणम्य: नरेन्द्रसुरेन्द्रासुरेन्द्रादिभिः वन्दनीयत्वात्, तम् । पुन: कीदृशम् ? बम् ® ब: = विमल: → ब: शब्द: स्याद् विमले . [३७] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातनिर्मिता, तनुमनसोनॆर्मल्यात्, तम् । पुन: कीदृशम् ? बबबम् + ब: = मद: → ब: कुम्भे वरुणे बिन्दौ विकल्पे भे गुरौ मदे - [१०१] इत्येकाक्षरीनाममाला कालिदासव्यासविरचिता, ब: = भूधर: → भूधरश्च भयपृष्ठगतस्तथा सुरसो वज्रमुष्टिश्च बकार: - [४१] इत्येकाक्षरीमातृकाकोशोऽज्ञातकर्तृकः, ब: = भेद: → ब: पुमान् पुरुषे...भेदे * [८५] इत्येकाक्षरशब्दमालाडमात्यमाधवरचिता, ब एव ब इति बबस्तस्य बो यस्मात् स बबब: = मदमहीधरभेदक: कषायरहितत्वात् कषायनिवारकत्वाच्च, तम् । पुन: कीदृशम् ? बबम् • बम् = जगद् बम् = रक्षक: → बं शम्भौ च सुवायौ च जले जगति रक्षके - [१०३] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, बानां बमिति बबम् = जगत्त्रयीरक्षकः, तद् । ननु जगत्त्रय्या रक्षणेऽपेक्ष्यते बहुलं बलं किमस्ति जिनेशितरीदम् ? इति जिज्ञासायामाह। पुनः कीदृशम् ? बबम् + बम् = बहुलम् बम् = बलम् → बं बलं बहुलं स्मृतम् + [७४] इत्येकाक्षरनाममाला सौभरिरचिता, बं बं यस्य स बब: = बहुलबल: अनन्तवीर्यवत्त्वात्, तम् । पुनः कीदृशम् ? बबम् - ब: = पद्मम् → ब: कुम्भे वरुणे पद्मे [३३] इत्येकाक्षरनाममाला सुधाकलशमुनिप्रणीता, ब: = गन्ध: → बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे शोषणे पवने गन्धे [८७] इति पूर्वोक्तविश्वशम्भुवचनाद्, ब इव बो यस्य स बब: = सरोजवत् सुगन्धी प्रकृष्टपुण्यवत्त्वादतिशयविशेषाच्च, तम् । [ब:] श्रीअनन्तनाथजिनस्तुति: ९९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy