SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ← [१२] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातप्रणीता, फ एव फ इति फफः पशमने फइव यः स फफफ: = कोपकृशानुकम्पाक: प्रशमपीयूषवर्षकत्वात्, तम्, समीरस्तु वह्निमुपशमयत्यभिवर्धयति च न चात्राभिवर्धनं भाव्यमनौचित्यात् । पुनः कीदृशम् ? फफफम् फम् = लाभ: → फं क्लीबे लाभे ← [८५] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, फः = शाखी तरुरित्यर्थः → फः कलानिलशाखिनि ← [१२] इति नत्वादि - एकाक्षरीनाममालाऽज्ञातरचिता, फम् = बीजम् → फं चायतनबीजे ← [ ८४] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, बीजशब्दस्य कारणमित्यप्यर्थ: क्रियते, फमेव फ इति फफ:, तस्मिन् फवद् य: स फफफम् = लाभतरो: सर्जने बीजसमानः कारणस्वरूप इत्यर्थो वा, प्रमोदप्रदायकत्वात् लाभोपलब्धौ मुदनुभूते:, जिनेशितुस्सर्वलाभो - पलब्धौ न कस्यचिल्लाभविशेषस्योल्लेख:, तद् । पुनः कीदृशम् ? फम् फः = हितः → फशब्द: परोक्षेऽपि हिते तथा ← [ ८४] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, हितशब्दस्य हितकारीत्यप्यर्थः, तम् । पुनः कीदृशम् ? फफम् - फः = न्यायः → फोsपारदर्शने देवे न्याये ← [८४] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, फः = जल्पः वचनमित्यर्थः ‘जल्प’धातोर्भावार्थक-‘घञ्' प्रत्ययः फकारो निष्फले जल्पे ← [३२] इत्येकाक्षरनाममाला सुधाकलशमुनिप्रोक्ता, फो फे यस्य स फफः = न्यायनिरूपकः सत्यभाषित्वात् तम् । पुनः कीदृशम् ? फफम् फम् = चारु फं फल्गु चारु वा स्मृतम् ← [७२] इत्येकाक्षरनाममाला सौभरिप्रणीता, फम् = ध्वनिः → फं निष्फले ध्वनौ ← [ ८४ ] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, फं फं यस्य स फफ: मधुरध्वनि: सुस्वरनामकर्मोदयात्, तम् । पुनः कीदृशम् ? फफफम् फम् = लोभ: फं क्लीबे लाभे लोभे ← [८५] इत्येकाक्षरनाममालिका विश्वशम्भुकथिता, फः = लोहः → फो जल्पे निष्फले [फ: ] श्रीविमलनाथजिनस्तुतिः = ९३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy