SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ यक्षमण्डपिकाप्रायें, स्थाने कोप्यस्रवज्जलें। आचार्या वज्रगुरवस्ते तस्थुः सपरिच्छदाः॥१४०॥ अन्वय :- क्व अपि अस्रवज्जले यक्षमण्डपिकाप्राये स्थाने आचार्याः वज्रगुरवः सपरिच्छदाः तस्थुः । समास :- (१) यक्षमण्डपिकाप्राये - (A) यक्षस्य मण्डपिका इति यक्षमण्डपिका । (ष.त.पु.) (B) यक्षमण्डपिकया प्रायः इति यक्षमण्डपिकाप्रायः, ___ तस्मिन् यक्षमण्डपिकाप्राये । (तृ.त.पु.) (२) अस्रवज्जले - (A) न स्रवत् इति अस्रवत् (नञ्.त.पु.) (B) अस्रवत् जलं यस्मिन् तद् इति अस्रवज्जलम्, तस्मिन् अस्रवज्जले । (समा.ब.वी.) (३) वज्रगुरवः - पूर्ववत् । (४) सपरिच्छदाः - परिच्छदेन सह वर्तन्ते ये ते इति सपरिच्छदाः । (सह.ब.वी.) प्राग्जन्मसुहृदो वज्रयामरा जृम्भकास्तदा । सत्त्वं परीक्षितु तत्रं , वणिग्मूर्तीविचक्रिरें ॥१४१॥ अन्वय :- तदा प्राग्जन्मसुहृदः जृम्भकाः अमराः वज्रस्य सत्त्वं परीक्षितुं तत्र वणिग्मूर्तीः विचक्रिरे । समास :- (१) प्राग्जन्मसुहृदः - (A) प्राग् चेदं जन्म च इति प्राग्जन्म । (वि.पू.क.) (B) प्राग्जन्मनः सुहृदः इति प्राग्जन्मसुहृदः । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy