SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अन्वय :- यावद् आर्याप्रतिश्रये वज्रः अष्टवर्षः अभवत् ततः हर्षभाग्भिः महर्षिभिः वसत्याम् आनिन्ये। समास :- (१) अष्टवर्षः - अष्टौ वर्षाणि यस्य सः इति अष्टवर्षः । (संख्या.ब.वी.) (२) आर्याप्रतिश्रये - आर्यायाः प्रतिश्रयः इति आर्याप्रतिश्रयः, तस्मिन् आर्याप्रतिश्रये । (ष.त.पु.) (३) हर्षभाग्भिः - हर्षं भजन्ते इति हर्षभाजः, तैः ___ हर्षभाग्भिः । (उप.त.पु.) (४) महर्षिभिः - पूर्ववत् । अन्यदा वज्रगुरवः, प्रत्यवन्ती प्रतस्थिरें । धाराधरोऽखण्डधारमन्तराले ववर्ष च ॥१३९॥ अन्वय :- अन्यदा वज्रगुरवः अवन्ती प्रति प्रतस्थिरे अन्तराले च धाराधरः अखण्डधारं ववर्ष । समास :- (१) वज्रगुरवः - (A) वज्रेण युक्ताः इति वज्रयुक्ताः । (तृ.त.पु.) (B) वज्रयुक्ताः गुरवः इति वज्रगुरवः । (म.प.लो.क.) (२) धाराधरः - धारां धरति इति धाराधरः । (उप.त.पु.) (३) अखण्डधारम् - (A) नास्ति खण्डं यस्यां सा इति अखण्डा । (नञ्.ब.वी.) (B) अखण्डा धारा यस्मिन् यथा स्यात् तथा इति अखण्डधारम् तद् अखण्डधारम् । (समा.ब.वी.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy