SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ૩૨ अन्वय :- सुरूपं शीलशालिनं वज्रं दृष्ट्वा मत्सूनुः इति वादिनी सुनन्दा अपि शय्यातरेभ्यः अयाचिष्ट। समास :- (१) सुरूपम् – शोभनं रूपं यस्य सः इति सुरूपः, तं सुरूपम् । (अव्य. ब. वी.) (२) शीलशालिनम् - शीलेन शालते इति शीलशाली, तं शीलशालिनम् । (उप. त. पु.) (३) शय्यातरेभ्यः - शय्यातराः - पूर्ववत्, तेभ्यः शय्यातरेभ्यः । (४) मत्सूनुः - मम सूनुः इति मत्सूनुः । (ष. त. पु.) जननीपुत्रसम्बन्धम्, तर्वामुयोर्भकस्य च । न विद्यः किन्त्वसौं न्यासों, गुरूणामिति तेऽवदन् ॥६६॥ अन्वय :- तव अमुष्य अर्भकस्य च जननीपुत्रसम्बन्धं न विद्मः किन्तु तु असौ गुरूणां न्यासः इति ते अवदन् । समास :- (१) जननीपुत्रसम्बन्धम् - (A) जननी च पुत्रश्च इति जननीपुत्रौ । (इत. द्वन्द्व) (B) जननीपुत्रयोः सम्बन्धः इति जननीपुत्र ___सम्बन्धः, तं जननीपुत्रसम्बन्धम् । (ष.त.पु.) इत्युक्त्वा नर्पियामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रम्", दूरस्थैव परस्ववत् ॥६७॥ अन्वय :- इति उक्त्वा शय्यातराः तस्यै सुतं न अर्पयामासुः ततः च दूरस्था एव सा वज्रं परस्ववत् ऐक्षिष्ट । समास :- (१) शय्यातराः - पूर्ववत् । (२) दूरस्था - दूरे तिष्ठति इति दूरस्था। (उप.त.पु.)।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy