SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ૨૯ वयोवृद्धपरिणामो, वज्रों बालोऽपि संयमात् । न बालचापलं चक्रे, लिंचित् तासामसौख्यदम् ॥६०॥ अन्वय :- बालः अपि संयमात् वयोवृद्धपरिणामः वज्रः तासाम् असौख्यदं किंचित् बालचापलं न चक्रे । समास :- (१) वयोवृद्धपरिणामः-(A) वयसा वृद्धः इति ज्योवृद्धः । (तृ.त.पु.) (B) वयोवृद्धस्य परिणामः इव परिणामः यस्य सः इति वयोवृद्धपरिणामः । (उप. ब. वी.) (२) बालचापलम् - बालस्य चापलम् इति बालचापलम्, तद् बालचापलम् । (ष.त.पु.) (३) असौख्यदम्-(A) सुखस्य भावः सौख्यम्। (तद्धित) (B) न सौख्यम् इति असौख्यम् । (नञ्.त.पु.) (C) असौख्यं ददाति इति असौख्यदम्, तद् असौख्यदम् । (उप.त.पु.) बुभुजे प्रासुकं वज्रः, प्राणयात्राकृते सुधीः । जातिस्मरणसञ्जातविवेकः कल्पविद्धि सः ॥६१॥ अन्वय :- जातिस्मरणसञ्जातविवेकः सुधीः कल्पवित् सः वज्रः प्राणयात्राकृते हि प्रासुकं बुभुजे । समास :- (१) प्रासुकम् - प्रगताः असवः यस्मात् तद् प्रासुकम्, तद् प्रासुकम् । (प्रादि.ब.वी.) (२) प्राणयात्राकृते - (A) प्राणानां यात्रा इति प्राणयात्रा। (ष.त.पु.) (B) प्राणयात्रायाः कृते इति प्राणयात्राकृते। (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy