SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अन्वय :- अथ आर्यिकाः भक्ते शय्यातरकुले गत्वा स्वम् आत्मानम् इव आख्याय पालनाय तं बालम् आर्पयन् । आर्यिकाः - साध्व्यः । समास :- (१) शय्यातरकुले - (A) शय्यया (वसत्या) तरतीति शय्यातरः । (उप.त.पु.) (B) शय्यातरस्य कुलम् इति शय्यातरकुलम्, तस्मिन् शय्यातरकुले । (ष.त.पु.) कुमारभृत्याकुशला , शय्यातर्योऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या', पश्यन्त्यः पर्यपालयन् ॥५६॥ अन्वय :- कुमारभृत्याकुशलाः प्रीत्या स्वस्वपुत्राधिकं पश्यन्त्यः शय्यातर्यः अपि तं शिशुं पर्यपालयन् । समास :- (१) कुमारभृत्याकुशलाः – (A) कुमारस्य भृत्या इति कुमारभृत्या । (ष.त.पु.) (B) कुमारभृत्यायां कुशलाः इति ___ कुमारभृत्याकुशलाः । (स.त.पु.) (२) स्वस्वपुत्राधिकम् - (A) स्वे च स्वे च इति स्वस्वे। (विशे० उभ०क०) (B) स्वस्वेषां पुत्राः इति स्वस्वपुत्राः । (ष.त.पु.) (C) स्वस्वपुत्रेभ्यः अधिकः इति स्वस्वपुत्राधिकः, तं स्वस्वपुत्राधिकम् । (पं. त. पु.) शय्यातरपुरन्ध्रीणाम् , स सौभाग्यनिधानभूः । अङ्कांदई सञ्चचार', हंसोऽम्बुजमिवाम्बुजात् ॥५७॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy