SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अन्वय :- जातजातिस्मरणः संसारासारतां विदन् क्षीरकण्ठः अपि सः पित्र्ये अध्वनि अध्वनीनताम् इयेष । अध्वनीनताम् – पथिकताम् । अध्वनीनोऽध्वगोऽध्वन्यः, पान्थः पथिकदेशिकौ । प्रवासी... इत्यभिधाने । (४९३) समास :- (१) जातजातिस्मरणः- (A) जातिस्मरणम्-पूर्ववत् । (B) जातं जातिस्मरणं यस्य सः इति जातजाति स्मरणः । (समा.ब.वी.) (२) संसारासारताम्- (A) न सारः इति असारः । (नञ्. त.पु.) (B) असारस्य भावः इति असारता । (तद्धित) (C) संसारस्य असारता इति संसारासारता, तां संसारासारताम् । (ष.त.पु.) (३) क्षीरकण्ठः - क्षीरं कण्ठे यस्य सः इति क्षीर कण्ठः । (व्य.ब.वी.) (४) पित्र्ये - पितुः अयम् इति पित्र्यः, तस्मिन् पित्र्ये "पितुर्यो वा" ६।३।१५१ य प्रत्ययः । (तद्धित) (५) अध्वनीनताम् - अध्वानमलंगामी इति अध्वनीनः, अध्वानं येनौ ७।१।१०३ ईनप्रत्ययः, अध्वनीनस्य भावः अध्वनीनता, ताम् अध्वनीनताम् । (तद्धित) कथर्मुद्विज्यं मां माता, त्यक्ष्यतीति विचिन्त्यं सः । मातुरङ्कस्थितोऽप्युच्चै, रोदिति स्म दिवानिशम् ॥२८॥ अन्वय :- कथम् उद्विज्य माता मां त्यक्ष्यति इति विचिन्त्य मातुः अङ्कस्थितः अपि सः दिवानिशम् उच्चैः रोदिति स्म । समास :- (१) अङ्कस्थित :- अङ्के स्थितः इति अङ्कस्थितः । (स. त. पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy