SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ राजोऽपि व्याजहोरैवम्, विस्मयस्मेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वज्रमुनिः खलु ॥२९१॥ अन्वय :- खलु विस्मयस्मेरमानसः राजा एवं व्याजहार वज्रमुनिः यथेष्टरूपनिर्माणलब्धिः अपि (अस्ति) । समास :- (१) विस्मयस्मेरमानसः - (A) स्मेरं च तद् मानसं च इति स्मेरमानसम् । (वि.पू.क.) (B) विस्मयेन स्मेरमानसं यस्य सः इति विस्मय ___ स्मेरमानसः (व्यधि.ब.वी.) (२) यथेष्टरूपनिर्माणलब्धिः - (A) इष्टम् अनतिक्रम्य इति यथेष्टम् । (अव्य.भा.) (B) यथेष्टं च तद् रूपं च इति यथेष्टरूपम् । (वि.पू.क.) (C) यथेष्टरूपस्य निर्माणम् इति यथेष्टरूपनिर्माणम् । (ष.त.पु.) (D) यथेष्टरूपनिर्माणस्य लब्धिः यस्य सः इति यथेष्टरूपनिर्माणलब्धिः । (व्यधि.ब.वी.) (३) वज्रमुनिः - पूर्ववत्। धनश्रेष्ठ्यपि तद्वज्रस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामासे, साग्रहां तत्स्वयंवरे ॥२९२॥ अन्वय :- तद् वज्रस्वामिरूपं निरूपयन् धनश्रेष्ठी अपि तत्स्वयंवरे साग्रहां स्वां पुत्रीं वर्णयामास। समास :- (१) धनश्रेष्ठी - (A) धनः नाम यस्य सः इति धननामा । (समा.ब.वी.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy