SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ૧ ૨૦ एवं तुं मुनिवृन्देघु, पृच्छेन्सर्वेषु भूपतिः । वज्रं ददर्श मोहाद्रिवज्रं पश्चाद् गणें स्थितम् ॥२५९॥ अन्वय :- एवं तु सर्वेषु मुनिवृन्देषु पृच्छन् भूपतिः गणे पश्चाद् स्थितं मोहाद्रिवज्र वज्रं ददर्श । समास :- (१) मुनिवृन्देषु - मुनीनां वृन्दानि इति मुनिवृन्दानि ____तेषु मुनिवृन्देषु । (ष.त.पु.) (२) भूपति:- भुवः पतिः इति भूपतिः । (ष.त.पु.) (२) मोहाद्रिवज्रम् - (A) मोहः एव अद्रिः इति मोहाद्रिः । (अव.पू.क.) (B) मोहाद्रि भिनत्ति इति मोहाद्रिभिद् । (उप.त.पु.) (C) मोहाद्रिभिद् वज्रः इति मोहाद्रिवज्रः, तं मोहाद्रिवज्रम् । (म.प.लो.क.) वज्रभट्टारकमर्थ, ववन्दं वसुधाधवः । किरीटरत्नांशुजलैस्तत्पादौ स्नपयन्निवे ॥२६०॥ अन्वय :- अथ किरीटरत्नांशुजलैः तत्पादौ स्नपयन् इव वसुधाधवः वज्रभट्टारकं ववन्दे । समास :- (१) वज्रभट्टारकम् - वज्रश्चासौ भट्टारकश्च इति वज्रभट्टारकः, तं वज्रभट्टारकम् । (वि.उत्त.क.) (२) वसुधाधवः - वसुधायाः धवः इति वसुधाधवः । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy