________________
बभूर्व श्रावकंस्तत्रं, श्रियों देव्या इवात्मजः । इभ्यपुत्री धनगिरिंगिरीकृतधनोच्चयः ॥ ४ ॥ अन्वय :- तत्र श्रियः देव्याः आत्मजः इव गिरीकृतधनोच्चयः
इभ्यपुत्रः धनगिरिः श्रावकः बभूव । इभ्यः - धनाढ्यः । “इभ्य आढ्यो धनीश्वरः । ऋद्धे"
इत्यभिधाने (३५७) । उच्चयः - राशिः। समास :- (१) आत्मजः - आत्मनो जातः इति आत्मजः ।
(उप.त.पु.)अजातेः पञ्चम्याः ५।१।१७० ड प्रत्ययः। (२) गिरीकृतधनोच्चयः - (A) न गिरिः इति अगिरिः।
(नञ्.त.पु.) (B) अगिरिः गिरिः कृतः इति गिरीकृतः। (गति. त.पु.) (C) धनस्य उच्चयः इति धनोच्चयः । (ष.त.पु.) (D) गिरीकृतः धनोच्चयः येन सः इति
गिरीकृतधनोच्चयः । (समा. ब.वी.) (३) इभ्यपुत्रः - इभ्यस्य पुत्रः इति इभ्यपुत्रः । (ष.त.पु.) मध्यमेनापि वयसा, तस्य भूषितवर्मणः । हृदयें नाविर्शकामः, प्रशमद्वाःस्थरक्षितॆ ॥५॥ अन्वय :- मध्यमेन वयसा अपि भूषितवर्मणः तस्य प्रशमद्वाः
स्थरक्षिते हृदये कामः न अविशत् । वर्ष - शरीरम्, 'वपुः पुद्गलवह्मणी । कलेवरं शरीरम्"
इत्यभिधाने । (५६४) समास :- (१) भूषितवर्मणः - भूषितं वर्म यस्य सः इति
भूषितवा , तस्य भूषितवर्मणः । (समा.ब.वी.)