________________
यथा चाऽनेन प्राणप्रहाणेऽपि सत्त्वावष्टम्भात्प्रतिज्ञा निरवाहि बहवो विवेकिनोऽन्येऽपि तथाध्यवस्यन्तीति दृष्टान्तेनाह
पुम्फिय-फलिए तह पिउघरम्मि तण्हा छुहा समणुबद्धा । ढंढेण तहा विसढा, विसढा जह सप्फला जाया ॥ ३८ ॥
-
पुप्फियफलिए० गाहा : पुष्पितं - खाद्य-पेयकारणभूतद्रव्यनिचययुक्तं, फलितं - खादनपानप्रवणम्, एवं च पुष्पितमपि कृपणगृहं फलितं न भवति, फलितमपि च षिड्गभवनं पुष्पितं न भवति उत्पन्नभक्षित्वात्, तदर्थमुभयग्रहणम् । ततश्च पुष्पितं च तत्फलितं चेति समासस्तस्मिन् । तथेति प्रसिद्धिसङ्ग्रहार्थः। पितृगृहे कृष्णभवने इत्यर्थः, तृष्णा - पिपासा, क्षुधा - बुभुक्षा समनुबद्धा निरन्तरा ढढेन महात्मना, तथा तेनाऽलाभपरीषहाऽतिसहनप्रकारेण विषोढा तितिक्षिता यथा सत्फला जातेति सम्बन्धः, किम्भूतेत्याह - विशठा भावसारमकपटेन वेति सङ्क्षेपार्थः, विस्तरार्थः कथानकगम्यस्तच्चेदम्
पूर्वभवे राजवर्णवशतो बुभिक्षितकर्षकैः स्वक्षेत्रे हलचम्भादापनद्वारेण कृतान्तरायकर्मणो ढण्ढनाम्नो विष्णुतनयस्य अरिष्टनेमिपार्श्वे प्रव्रजितस्य विहरत उदीर्णं तत्कर्म । तत्प्रभावाच्च द्वारवत्यामपि प्रसिद्धो विष्णुपुत्रतया ख्यातो भगवच्छिष्यभावेन, तथापि न लभते किञ्चित्, उपहन्ति च शेषसाधुलब्धिम्, ततो न मया परलब्धिर्भोक्तव्येति गृहीतो भगवदनुज्ञातेनाभिग्रहः । गतस्तमनुपालयतोऽविह्वलचित्तस्य बहुकालः । अन्यदा पृष्टः कृष्णेन भगवान्, 'कः साधूनां मध्ये दुष्करकारक: ' ? भगवानाह - सर्वेऽपि, विशेषतो
मुनिः । विष्णुराह - कथं ?, ततः कथितो भगवता तदभिग्रहः, तुष्टो माधवः, दृष्टश्च प्रविशता नगरीं हट्टमार्गे ढण्ढमुनिः, करिवरादवतीर्य वन्दितः सविनयम् । एतच्चावलोक्य श्रेष्ठिना हरेरपि मान्योऽयमिति प्रतिलम्भितः स स्वगृहे प्रवरमोदकैः, गतो भगवत्समीपं, पृष्टो भगवान् 'किं क्षीणं मे लाभविबन्धकं कर्मेति ?' भगवतोक्तं-न, स प्राह- ' कुतो लाभ: ?' भगवानाह - -कृष्णोपाधेरिति । ततो विशुद्धाऽध्यवसायस्य परलब्धिरियमिति विधिना परिष्ठापयतः
शुक्लध्यानाऽनलदग्धघातिकर्मेन्धनस्योत्पन्नं केवलज्ञानमिति ॥ ३८ ॥
અવતરણિકા : જેમ આના વડે = ચિલાતીપુત્ર વડે પ્રાણના નાશમાં પણ સત્ત્વની સ્થિરતાથી પ્રતિજ્ઞા વહન કરાઈ. (તેમ) બીજા પણ ઘણા વિવેકીઓ તેવા પ્રકારના અધ્યવસાયને કરે છે = સત્ત્વની સ્થિરતાપૂર્વક પ્રતિજ્ઞા વહન કરવાના મનોરથોને કરે છે. આ વાતને ગ્રંથકારશ્રી દૃષ્ટાન્તથી કહે છે.
ગાથાર્થ : પુષ્પિત અને ફલિત એવું પિતાનું ઘર હોતે છતે ઢંઢ મહાત્મા વડે નિરન્તર (ચાલતી એવી) तृष्णा भने क्षुधा ते रीते शहपएशाथी सहन राई के रीते (ते तितिक्षा) सत्इणवाणी थ. ।। ३८ ।।
टीङार्थ : पुष्पितं खेटले जावायोग्य अने पीवायोग्य सेवा (जान, पानना) अराभूत द्रव्योना समूहथी युक्त फलितं = जावा-पीवायां तत्पर खेवु पितानुं घर = द्रृष्ठा महाराभनुं घर होवा छतां નિરન્તર = સતત ચાલતી એવી તરસ અને ક્ષુધા ઢંઢ મહાત્મા વડે તે રીતે = અલાભ પરિષહને અતિશય