________________
आओ संस्कृत सीखें
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खे: सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ।।
274
अपारे संसारे कथमपि समासाद्य नृभवम्, न धर्मं यः कुर्याद् विषयसुखतृष्णा - तरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणम्,
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् ।
न हि वन्ध्या विजानाति, गुर्वी - प्रसववेदनाम् ।। उदेति सविता ताम्र-स्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च, महतामेकरूपता ।। अधमजातिरनिष्टसमागमः
अपयशोऽखिललोकपराभवो
प्रियवियोग- भयानि दरिद्रता ।
तावद्
भवति पापतरोः फलमीदृशम् ॥ उत्कूजन्तु वटे वटे बत बका: काका वराका अपि,
क्रां कुर्वन्तु सदा निनान्दपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः,
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ।। जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्,
सत्संगतिः कथय किं न करोति पुंसाम् । गर्जन्ति मातङ्गा वने मदभरालसाः ।
लीलोल्लालित- लाङ्गूलो यावन्नायाति केसरी ।। संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते,