SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 272 अपरेधुः शतबलो विद्याधरपति: सुधीः । महासत्त्वस्तत्त्वविज्ञ-श्चिन्तयामासिवानिदम् ।। विधाय सहजाऽशौच-मुपस्कारै नवं नवम् । गोपनीयमिदं हन्त, कियत्कालं कलेवरम् ।। सत्कृतोऽनेकशोप्येष सत्क्रियेत यदापि न । तदाऽपि विक्रियां याति कायः खलु खलोपमः ।। अहो बहिर्निपतितै विष्ठामुत्रकफादिभिः । हृणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितै न किम् ।। रोगा: समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्दशूका इव क्रूरा जरद्विटपिकोटरे ।। निसर्गाद् गत्वरश्चायं कायोब्द इव शारदः । दृष्टनष्टा च तत्रेयं यौवनश्रीस्तडिन्निभा ।। आयुः पताकाचपलं तरङ्गतरलाः श्रियः । भोगिभोगनिभा भोगाः सङ्गमाः स्वप्नसन्निभाः ।। कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । आत्मा शरीरान्तः स्थोऽसौ पच्यते पुटपाकवत् ।। विषयेप्वतिदुःखेषु सुखमानी मनागपि । नाऽहो विरज्यति जनोऽशुचिकीट इवाडशुचौ ।। दुरन्तविषयास्वाद-पराधीनमना जनः । अन्धोऽन्धुमिव पादाग्र-स्थितं मृत्युं न पश्यति ।। आपातमात्रमधुरै-विषयै विष-सन्निभैः । आत्मा मूर्च्छित एवाऽऽस्ते, स्वहिताय न चेतति ।। तुल्ये चतुर्णां पौमh पापयोरर्थकामयोः । आत्मा प्रवर्तते हन्त न पुनधर्ममोक्षयोः ।। अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं मानुष्यमतिदुर्लभम् ।। मानुष्यकेऽपि सम्प्राप्ते प्राप्यन्ते पुण्ययोगतः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy