SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ "प्रशस्तिः ।" "संसारतापानलतप्तशान्त्यै, सा सुप्रभुश्चन्द्रकलाप्रमेव । गनेव मोहात्कृतपातकानां, मनोमलक्षालनमातनोतु ॥१॥ रमेव रूपं पठतां मनांसि, क्षमेव विद्यां समलङ्करोतु । धर्म तथा मोक्षपदं दधाना, पुनः पुनर्मङ्गलमातनोतु ॥२॥ विद्यामृतानन्दरसैकपूर्णा, सत्सेव्यमाना सरलार्थरूपा । नेत्राष्टनन्दैकमितेऽब्दसंख्ये,समाप्तिमगमत्किलकर्मसिद्धिः३ शुभोऽभूदाचार्योऽसौ जगति विजयानन्दपदभाक, तदीये पट्टेऽस्मिन् विजयकमलाचार्यः सुतनुः । तदीये साम्राज्ये विविधविमलानन्दभुवने, महोपाध्यायः श्रीविजयपरवीरः समभवत् ॥४॥ तदीयान्तेवासिप्रभुविजयदानाख्यविदुषा, पदं प्राप्त सूरेविजयकमलेभ्योऽतिपरमम् । पदायेन प्रेम्णा विजयपदयुक्तेन मुनिना, न्यगादीयं दानोत्तरविजयसूरेः सुशिशुना॥५॥ ___ याते वर्षे करशरयुगाक्षिप्रमे ज्ञातसूनोः, मोक्षं प्राप्तात् सकलजगतीभावभासाय भानोः।। शिश्रायैषा विजयिविजयानन्दसूरीश्वराणाम्, खगोरोहाद् रदपरिमिते सत्पथज्ञापकानाम् ॥६॥ उत्सूत्रं यत् सत्रितं किञ्चिदत्र बुद्धर्मान्द्या बाह्यानाभोगतोऽपि। सान्मे मिथ्यादुष्कृतं तत्त्वविद्भिर्मय्याधायानुग्रहं शोधनीयम्"
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy