SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कर्मसिद्धिः। शेन सह कदापि जीवस्य संयोगो निवर्तते । एवं कर्मणोऽपि जीवेन सह संसर्गो वाच्य इति चेत् १ नायमेकान्तः, यतोऽनादिसंयुक्तयोरपि वस्तुनोः सन्तानः सान्तो दृष्टः, तथाहि-बीजाकुरयोर्मध्येऽन्यतरदनिवर्तितकार्यमेव यदैव विनष्टं तदैव तयोः सन्तानोऽपि विनष्टः, एवं कुर्कटाण्डकयोः पितृपुत्रयोरपि वाच्यम् । यद्वा काञ्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतोऽपि संयोगोऽग्नितापाद्यनुष्ठानात् व्यवच्छिद्यतेऽतो न मोक्षाभाव इति । नन्वाकाशजीवयोरिव काश्चनोपलयोरिव वा परस्परमनादिसंयोग इति चेत् ? उभयथापि न विरोधः, तथाहि-अभव्यानामाकाशजीवयोरिव भव्यानां काञ्चनोपलयोरिवानादिसन्तानगतः संयोगो वाच्य इति । न्यायाम्भोनिधिश्रीमद्विजयानंदसूरीश्वरपट्टपूर्वाचलानन्यनभोमणिश्रीमद्विजयकमलसूरीश्वरपट्टविभूषण-वाचकचन्द्रश्रीमद्वीरविजयविनेयावतंसक-सिद्धान्तपारदृश्व-भट्टारक-श्रीमद्विजयदानसूरीश्वरचरणभृङ्गायमाणेन पन्यास-प्रेमविजयग णिनाऽलेखि कर्मसिद्धिः।
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy