SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४३४ कातन्त्रव्याकरणम् ८२५. तवर्गस्य षटवर्गाट्टवर्गः [३।८।५] [सूत्रार्थ घकार-टवर्ग से परवर्ती तवर्ग के स्थान में सदृशतम टवर्गादेश होता है ।।८२५ । [दु० वृ०] षाट्टवर्गाच्च परस्य तवर्गस्य टवर्गों भवति आन्तरतम्यात् । वपष्टवम्. वपष्टा, द्वेष्टि, दिष्टः। पिण्ड्ढ, कुष्णाति, ईट्टे, लीढः, अलीद्वम् । टवर्गाट्टवर्ग इति किम् ? वक्ता, पपक्थेति सिद्ध्यर्थम् । कथं मधुलिट् तरति मधुलिट्तरः ? अन्त्यत्वात् ।।८२५ । [दु० टी०] तवर्गस्य० । नात्र प्रकरणमाश्रीयते इति मनसिकृत्याह- वपुष्टरमिति। टवर्गाट टवर्ग इति किमिति “तवर्गचटवर्गयोगे चटवर्गों' (२।४।४६) इत्यनेनैव सिध्यतीति भाव:? सत्यम् । सिद्धे पुनर्वचनं प्रकरणद्वारेण नियमार्थम् आख्यातेऽस्मिन् टवर्गाट टवों भवति, चवर्गाच्चवर्गो न भवतीत्याह- वक्तेत्यादि। मधुलिट तरतीत्यादिषु तत्रानन्त्यव्याख्यानबलादेव व्यावृत्तिरिति चोद्यं परिहरनाह-कथमित्यादि ।।८२५।। [वि० प०] तवर्ग० । इह प्रकरणं नाद्रियते इति लिङ्गस्यापि दर्शयत्राह- वपुष्टरम्, वपुष्टेति। प्रकृष्टं वपुः, वपुषो भाव इति विगृह्य तद्धितः "ह्रस्वात् तादौ तद्धिते नाम्नः' (कात० परि०ष०२२) इति षत्वम् । पिण्ढीति। "पिष्ल संचूर्णने (६।१२) इति रुधादित्वान्नशब्दः, "हुधुड्भ्यां हेर्घिः' (३।५।३५) इति धत्वम्, "धुटां तृतीयश्चतुर्थेषु' (३।८।८) इति षस्य डत्वम् । ईट्टे इति। 'ईड स्तुतौ' (२।४३) । लीढ इति। निष्ठा तस् वा। "तवर्गश्चटवर्गयोगे चटवौँ' (२।४।४६) इत्यनेनैव सिद्धे नियमार्थमित्याह- टवर्गादित्यादि। इहाख्याते टवर्गाट्टवर्गो भवति चवर्गाच्चवर्गों न भवतीति प्रकरणद्वारेण नियमार्थमित्याह- वक्तेत्यादि। अन्यथा चवर्गादपि तेन चवर्गः स्यादिति भावः। अन्त्यत्वादिति। तत्रानन्त्यव्याख्यानव्यावृत्तिबलादिहानेन टवर्गों न भवतीत्यर्थः ।।८२५। [बि० टी०] तवर्ग०। मधुलिट् तरतीति वृत्तिः। “तवर्गश्चटवर्गयोगे (२।४।४६) इत्यस्य व्यावृत्तिबलादित्यर्थः। यत्तु टीकाकृताऽन्तसमीपोऽन्त्यम् इत्युक्तं तस्यात्रैव विषयः। अन्यथा तकारस्यानन्त्यत्वात् कथं व्यावृत्तिः ।।८२५। [समीक्षा 'द्वेष्टि, पेष्टव्यम्, ईट्टे, लीढः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में तवर्ग को टवर्गादेश किया गया है । पाणिनि का सूत्र है - "ष्टुना टुः" (अ० ८।४।४१) । तदनुसार तवर्ग को टवर्ग तथा सकार को षकारादेश होता है। कातन्त्रकार ने यहाँ सकार को षकारादेश का विधान नहीं किया है, उसकी पूर्ति कातन्त्रपरिशिष्टकार ने "ह्रस्वात् तादौ तद्धिते नाम्नः' (कात० परि०-१० २२) सूत्र द्वारा की है।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy